________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
॥ २०० ॥
www.kobatirth.org
न चायं विशेषविरुद्धः, कर्मसंबद्धस्यात्मनः संघातरूपत्वाभ्युपगमात् । गतमिन्द्रियद्वारम् अधुना बन्धादिद्वाराण्याहग्रहणवेदक निर्जरकः कर्मणोऽन्यो, यथाऽऽहार इति, तत्र ग्रहणं कर्मणो बन्धः वेदनं उदयः निर्जरा क्षय:, यथाऽऽहारे इतिआहारविषयाणि ग्रहणादीनि न कर्त्रादिव्यतिरेकेण तथा कर्मणोऽपीति प्रयोगार्थः, प्रयोगस्तु विद्यमानभोक्तृकमिदं कर्म, ग्रहणवेदननिर्जरणसद्भावाद्, आहारवदिति गाथार्थः । उक्तानि बन्धादिद्वाराणि, व्याख्याता च प्रथमा प्रतिद्वारगाथा, साम्प्रतं द्वितीयामधिकृत्य चित्तादिस्वरूपव्याचिख्यासयाऽऽह
भा०- चित्तं तिकालविसयं चेयण पञ्चक्ख सन्नमणुसरणं विण्णाणऽणेगभेयं कालमसंखेयरं धरणा ।। १९ ।। चित्तं त्रिकालविषयं ओघतोऽतीतानागतवर्तमानग्राहि, चेतनं चेतना सा प्रत्यक्षवर्तमानार्थग्राहिणी, संज्ञानं संज्ञा-सा अनुस्मरणमिदं तदिति ज्ञानम्, विविधं ज्ञानं विज्ञानं अनेकभेदं- अनेकप्रकारम्, अनेकधर्मिणि वस्तुनि तथा तथाऽध्यवसाय इत्यर्थः, कालमसंख्येयेतरं असंख्येयं संख्येयं वा, धारणाअविच्युतिस्मृतिवासनारूपा, तत्र वासनारूपा असंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषां च संख्येयमिति गाथार्थः ।।
भा०- अत्थस्स ऊह बुद्धी ईहा चेट्ठत्थ अवगमो उ मई। संभावणत्थतक्का गुणपच्चक्खा घडोव्वऽत्थि ।। २० ।। अर्थस्योहा बुद्धिः संज्ञिनः परनिरपेक्षोऽर्थपरिच्छेद इति भाव:, ईहा चेष्टा किमयं स्थाणुः किंवा पुरुष ? इति सदर्थपर्यालोचनरूपा, अर्थावगमस्तु अर्थपरिच्छेदस्तु शिरः कण्डूयनादिधर्मोपपत्तेः पुरुष एवायमित्येवंरूपा मतिः, संभावणत्थतक्क ति प्राकृतशैल्या अर्थसंभावना- एवमेव चायमर्थ उपपद्यत इत्यादिरूपा तर्का । इत्थं द्वाराणि व्याख्याय सर्व एते चित्तादयो गुणा वर्तन्त इति जीवाख्यगुणिप्रतिपादकेन प्रयोगार्थेनोपसंहरन्नाह - गुणप्रत्यक्षत्वाद्धेतोर्घटवदस्ति जीव इति गम्यते, एष गाथार्थः ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीवनिकायम्,
| सूत्रम् १ पद्माव षड्जीवनिकायः | भाष्यम
यम् १९
जीवस्य लक्षणानि Maung जीवशुद्धिः
भाष्यम् २० जीवसिद्धिः जीवास्तित्वं
च।
॥ २०० ॥