________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||१९९।।
षड़जीवनिकायम, सूत्रम् १
भाष्यम्
प्रयोगस्तु-सन्नात्मा, स्वलक्षणापरित्यागाद्, अग्निवदिति । उक्तमुपयोगद्वारम्, अधुना कषायद्वारमाह-सकषायत्वाद्- अचेत- चतुर्थमध्ययनं नविलक्षणक्रोधादिपरिणामोपेतत्वादित्यर्थः, नाभावो जीवः, कुत इत्याह-पर्यायगमनात्-क्रोधमानादिपर्यायप्राप्तेः, सुवर्णवत्, कटकादिपर्यायगमनोपेतसुवर्णवदिति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, पर्यायगमनात्, सुवर्णवदिति गाथार्थः ।। उक्तं कषायद्वारम्, इदानीं लेश्याद्वारमाह
पजीवनिकाय: भा०-लेसाओ णाभावो परिणमणसभावओ य खीरं व । उस्सासा णाभावो समसभावा खउव्व नरो ।। १७ ।। लेश्यातो लेश्यासद्भावेन नाभावो जीवः, किंतु भाव इति, कुत इत्याह- परिणमनस्वभावत्वात्- कृष्णादिद्रव्यसाचिव्येन । जीवस्य जम्बूखादकादिदृष्टान्तसिद्धतथाविधपरिणामधर्मत्वात्, क्षीरवदिति प्रयोगार्थः, प्रयोगस्तु- सन्नात्मा, परिणामित्वात्, क्षीरव
लक्षणानि
जीवशुद्धिः। दिति । गतं लेश्याद्वारम्, प्राणापानद्वारमाह- उच्छ्रासादिति, अचेतनधर्मविलक्षणप्राणापानसद्धावान्नाभावो जीवः, किंतु भाव एवेति, श्रमसद्भावेन परिस्पन्दोपेतपुरुषवदिति प्रयोगार्थः, प्रयोगस्तु पुनरत्र व्यतिरेकी द्रष्टव्यः, सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वाद्, यत्तु सात्मकं न भवति तत्प्राणादिमदपि न भवति, यथाऽऽकाशमिति गाथार्थः ।। उक्तं प्राणापानद्वारम्, अधुना इन्द्रियद्वारमुच्यते
भा०- अक्खाणेयाणि परत्थगाणि वासाइवेह करणत्ता । गहवेयगनिजरओ कम्मस्सऽन्नो जहाहारो॥१८॥ अक्षाणि इन्द्रियाणि एतानी ति लोकप्रसिद्धानि देहाश्रयाणि परार्थानि आत्मप्रयोजनानि, वास्यादिवदिह करणत्वात् इहलोके । वास्यादिवदिति प्रयोगार्थः । आह- आदानान्येवेन्द्रियाणि तत्किमर्थं भेदोपन्यासः?, उच्यते, निर्वृत्त्युपकरणद्वारेण द्वैविध्यख्यापनार्थम्, ततश्च तत्रोपकरणस्य ग्रहणमिह तु निर्वृत्तेरिति, प्रयोगस्तु- परार्थाश्चक्षुरादयः, संघातत्वात्, शयनासनादिवत्,
For Private and Personal Use Only