________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१९८॥
रूपादयः ग्राहकाणि- इन्द्रियाणि तेषां प्रयोगः- स्वफलसाधनव्यापारस्तस्मात्, न हामीषां कर्मकरणभावः कर्तारमन्तरेण ।
चतुर्थमध्ययनं स्वकार्यसाधनप्रयोग: संभवति, अनेनापि हेत्वर्थमाह, हेतुश्चादेयादानरूपत्वादिति । दृष्टान्तमाह-संदेशाद् आदानात् अयस्पिण्डाद्
पइजीव
निकायम, आदेयात् अयस्कारादिवत् लोहकारवद्विज्ञेयः अतिरिक्तो विद्यमान आदातेत्यनेनापि दृष्टान्तार्थमाह, दृष्टान्तस्तु संदंशकाय
सूत्रम् स्पिण्डवत्, यस्तु तदनतिरिक्त: न ततो ग्राह्यग्राहकप्रयोगः, यथा देहादिभ्य एवेति व्यतिरेकार्थः, व्यतिरेकस्तु यानि विद्यमाना- षड़जीवनिकायः दातृकाणि न भवन्ति तान्यादानादेयरूपाण्यपि न भवन्ति, यथा मृतकद्रव्येन्द्रियादीनीति गाथार्थः ।। उक्तमादानद्वारम्,
भाष्यम
१५-१६ अधुना परिभोगद्वारमाह
जीवस्य भा०- देहो सभोतिओखलु भोजत्ता ओयणाइथालं व । अन्नप्पउत्तिगा खलु जोगा परसुव्व करणत्ता ।। १५ ।।
लक्षणानि
जीवशुद्धिः। देहः सभोक्तृकः खल्विति प्रतिज्ञा, भोग्यत्वादिति हेतुः, ओदनादिस्थालवत्- स्थालस्थितौदनवदिति दृष्टान्तः, भोग्यत्वं च । देहस्य जीवेन तथा निवसतोपभुज्यमानत्वादिति । उक्तं परिभोगद्वारम्, अधुना योगद्वारमाह- अन्यप्रयोक्तृकाः खलु योगाः, योगा:- साधनानि मनःप्रभृतीनि करणानीति प्रतिज्ञार्थः, करणत्वादिति हेतुः, परशुवदिति दृष्टान्तः । भवति च विशेषे पक्षीकृते सामान्यं हेतुः- यथा अनित्यो वर्णात्मकः शब्दः, शब्दत्वात्, मेघशब्दवदिति गाथार्थः ।। उक्तं योगद्वारम्, साम्प्रतमुपयोगद्वारमाह
भा०- उवओगा नाभावो अग्गिव्व सलक्खणापरिचागा । सकसाया णाभावो पजयगमणा सुवण्णं व ॥ १६ ।। उपयोगात साकारानाकारभेदभिन्नान्नाभावो, जीव इति गम्यते, कुत इत्याह- स्वलक्षणापरित्यागाद् उपयोगलक्षणासाधारणात्मीयलक्षणापरित्यागात्, अग्निवद्, यथाऽग्निरौष्ण्यादिस्वलक्षणापरित्यागानाभावस्तथा जीवोऽपीति प्रयोगार्थः,
॥१९८॥
For Private and Personal Use Only