SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृनियुतम् ||१९६॥ चतुर्थमध्ययन षड्जीवनिकायम, सूत्रम् षड्जीवनिकायः भाष्यम् १०-११ प्ररूपणा लक्षणंच। द्विविधाश्च द्विप्रकाराश्च, चशब्दानवविधाश्च पृथिव्यादिद्वीन्द्रियादिभेदेन भवन्ति जीवाः, द्वैविध्यमाह- सूक्ष्मास्तथा बादराश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयाच्च बादरा इति, लोक इति लोकग्रहणमलोके जीवभवनव्यवच्छेदार्थम्, तत्र सूक्ष्माश्च सर्वलोक इति, चशब्दस्यावधारणार्थत्वात्सूक्ष्मा एव सर्वलोकेषु, न बादराः, क्वचित्तेषामसंभवात्, 'द्वे एव च पर्याप्तकापर्याप्तकलक्षणे बादरविधाने बादरविधी, चशब्दात्सूक्ष्मविधाने च, तेषामपि पर्याप्तकापर्याप्तकरूपत्वादिति गाथार्थः॥ एतदेव स्पष्टयन्नाह___भा०- सुहुमा य सव्वलोए परियावन्ना भवंति नायव्वा । दो चेव बायराणं पज्जत्तियरे अनायव्वा ।। १० ।। परूवणादारं गयं ति॥ सूक्ष्मा एव पृथिव्यादयः सर्वलोके चतुर्दशरज्वात्मके पर्यायापन्ना भवन्ति ज्ञातव्याः ‘पर्यायापन्ना' इति तमेव सूक्ष्मपर्यायमापन्नाः। भावसूक्ष्मा न तु भूतभाविनो द्रव्यसूक्ष्मा इति भावः । तथा द्वौ भेदी बादराणां पृथिव्यादीनाम्, चशब्दात् सूक्ष्माणां च, पर्याप्तकेतरो ज्ञातव्यो पर्याप्तकापर्याप्तकाविति गाथार्थः ।। उक्ता प्ररूपणा, अधुना लक्षणमुच्यते, तथा चाह भाष्यकार: भा० - लक्खणमियाणि दारं चिंधं हेऊ अ कारणं लिंगं । लक्खणमिइ जीवस्स उ आयाणाई इमंतं च ॥११॥ लक्षणमिदानी द्वारमवसरप्राप्तम्, अस्य च प्रतिपत्त्यतया प्रधानत्वात्सामान्यतस्तावत्तत्स्वरूपमेवाह- चिह्न हेतुश्च कारणं लिङ्गलक्षणमिति । तत्र चिह्न- उपलक्षणम्, यथा पताका देवकुलस्य, हेतुः-निमित्तलक्षणं यथा कुम्भकारनैपुण्यं घटसौन्दर्यस्य, कारणं- उपादानलक्षणम्, यथा मृन्मसृणत्वं घटबलीयस्त्वस्य, लिङ्गं- कार्यलक्षणं यथा धूमोऽग्नेः, पर्यायशब्दा वा । एत इति । लक्षणमित्येतल्लक्षणं लक्ष्यतेऽनेन परोक्षं वस्त्वितिकृत्वा, जीवस्य पुनरादानादि लक्षणमनेकप्रकारमिदम्, तच वक्ष्यमाणमिति गाथार्थः ।। ॥ १९६॥ 85500RRAILERAR For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy