SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyarmandir श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् चतुर्थमध्ययन षड्जीवनिकायम्, सूत्रम् १ षड़जीवनिकायः भाष्यम जीवनिक्षेपाः भाष्यम् ८-९ भावजीव: प्ररूपणाच। भा०- संते आउयकम्मे धरई तस्सेव जीवई उदए। तस्सेव निजराए मओ त्ति सिद्धो नयमएणं ।। ७ ।। सति विद्यमान आयुष्ककर्मणि सामान्यरूपे ध्रियते सामान्येनैव तिष्ठति भवोदधौ, कथमित्थमवस्थानमात्राजीवत्वमस्येत्याशयात्रैवान्वर्थयोजनामाह- तस्यैव ओघायुष्ककर्मणो जीवत्युदये उदये सति जीवत्यासंसारं प्राणान् धारयति, अतो। जीवनाजीव इति, तस्यैवौघायुष्ककर्मणो निर्जरया क्षयेण, मृत इति, सर्वथा जीवनाभावात्, स च सिद्धो मृतो, नान्यः, विग्रहगतावपि तथाजीवनसद्भावात्, नयमतेने ति सर्वनयमतेनैव मृत इति गाथार्थः । उक्त ओघजीवितविशिष्ट ओघजीवः, साम्प्रतं भवजीवं तद्भवजीवं चाह# भा०-जेण य धरइ भवगओ जीवो जेण य भवाउ संकमई। जाणाहितं भवाउं चउव्विहं तब्भवे दुविहं ।। ८॥ निक्खेवो त्तिगयं।। येन च नारकाद्यायुष्केण ध्रियते तिष्ठति भवगतो नारकादिभवस्थितो जीवः, तथा येन च मनुष्याद्यायुष्केण भवात् । नारकादिलक्षणात् संक्रामति याति, मनुष्यादिभवान्तरमिति सामर्थ्यागम्यते, जानीहि विद्धि, तदित्थंभूतं भवायुः भवजीवितम्, चतुर्विधं नारकतिर्यमनुष्यामरभेदेन, तथा तद्भवेतद्भवविषयम्, आयुरिति वर्तते, तच्च द्विविधं-तिर्यक्तद्भवायुमनुष्यतद्भवायुश्च, यस्मात्तावेव मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्येते, नान्ये, तद्भवजीवितं च तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यत इति। अत्रापि च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव एव ग्राह्यः, जीवितं तु तद्विशेषणत्वादुक्तमिति गाथार्थः ।। उक्तो निक्षेपः, इदानीं प्ररूपणामाह भा०-दुविहाय हंति जीवा सुहमा तह बायरा य लोगम्मि । सुहमा यसवअवलोए दो चेव य बायरविहाणे॥९॥ 0 अत्र जीवत्यनेनेति जीव ओधेन सामान्येन जीव ओघजीवितविशिष्टो जीवः, मध्यमपदोत्तरपदलोपाद् इत्थं भवति इत्यधिकं केषुचिदादशेषु । ॥ १९५॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy