________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।।१९४
एतद्द्वारगाथाद्वयम्, अस्य व्याख्या- जीवस्य तु निक्षेपो नामादिः, प्ररूपणा द्विविधाश्च भवन्ति जीवा इत्यादिरूपा लक्षणं च-आदानादि अस्तित्वं सत्त्वं शुद्धपदवाच्यत्वादिना अन्यत्वं देहात् अमूर्तत्वं स्वतः नित्यत्वं विकारानुपलम्भेन कर्तृत्वं स्वकर्मफलभोगात् देहव्यापित्वं तत्रैव तल्लिङ्गोपलब्ध्या गुणित्वं योगादिना ऊर्ध्वगतित्वं अगुरुलघुभावेन निर्मा(म)यता विकाररहितत्वेन, सफलता-च कर्मणः परिमाणं लोकाकाशमात्र इत्यादि (ग्रन्थाग्रं ३०००) एवं जीवस्य त्रिविधकाल इति त्रिकालविषया, परीक्षा भवति कर्तव्या इति द्वारगाथाद्वयसमासार्थः ।। व्यासार्थस्तु भाष्यादवसेयः, तथा च निक्षेपमाह
नि०- नामंठवणाजीवो दव्वजीवो य भावजीवोय। ओह भवग्गहणंमि य तब्भवजीवे य भावम्मि ।। २२२ ।। नामस्थापनाजीव इति जीवशब्दः प्रत्येकमभिसंबध्यते, नामजीवः स्थापनाजीव इति, तथा द्रव्यजीवश्च भावजीवश्ववक्ष्यमाणलक्षणः, तत्र ओघ इति ओघजीवः, भवग्रहणे चे ति भवजीवः, तद्भवजीवश्च तद्भव एवोत्पन्नः, भावे भावजीव इति गाथासमासार्थः ।। व्यासार्थं त्वाह
भा०-नामंठवण गयाओ दव्वे गुणपनवेहि रहिउत्ति । तिविहो य होइ भावे ओहे भव तब्भवे चेव ।।६।। नामस्थापने गते, क्षुण्णत्वादिति भावः, द्रव्य इति द्रव्यजीवो गुणपर्यायाभ्यां चैतन्यमनुष्यत्वादिलक्षणाभ्यां रहितः, बुद्धिपरिकल्पितो, न त्वसावित्थंविध: संभवतीति, त्रिविधश्च भवति भाव इति,भावजीवत्रैविध्यमाह-ओघजीवो भवजीवस्तद्भवजीवश्चेति, प्राग्गाथोक्तमप्येतदित्थंविधभाष्यकारशैलीप्रामाण्यतोऽदुष्टमेवेति । अन्ये तु पठन्ति-'भावे उ तिहा भणिओ, तं पुण संखेवओ वोच्छं' 'भाव' इति भावजीवः, 'विधेति त्रिप्रकारो भणितो' नियुक्तिकारेण ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थः ।। तत्रौघजीवमाह
चतुर्थमध्ययन षड्जीवनिकायम, सूत्रम् पजीवनिकायः नियुक्ति:२२२ जीवपदस्य व्याख्यानिक्षेपद्वाराणि। भाष्यम६ जीवनिक्षेपाः।
800000660
For Private and Personal Use Only