________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१९२॥
निकायम,
भाष्यम्५
उपक्रमेड
।। अथ चतुर्थमध्ययनं षड्जीवनिकायाख्यम् ।।
चतुर्थमध्ययन सुअंमे आउसंतेणं भगवया एवमक्खायं इह खलु छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेड्या
षड्जीवसुअक्खाया सुपनत्ता सेअंमे अहिजिउं अज्झयणं धम्मपन्नती ।। सूत्रम् १ ।।
सूत्रम् व्याख्यातं क्षुल्लिकाचारकथाध्ययनमिदानीं षड्जीवनिकायाख्यमारभ्यते, अस्य चायमभिसंबन्ध:- इहानन्तराध्ययने । षड्जीवनिकायः 'साधुना धृतिराचारे कार्या न त्वनाचारे, अयमेव चात्मसंयमोपाय' इत्युक्तम्, इह पुनः स आचार षड्जीवनिकायगोचरः
नियुक्तिः प्राय इत्येतदुच्यते, उक्तं च-छसु जीवनिकाएसु, जे बुहे संजए सया। से चेव होइ विण्णेए, परमत्थेण संजए ॥१॥ इत्यनेनाभि- २१६-२१९ संबन्धेनायातमिदमध्ययनम्, आह च भाष्यकार:
धिकाराः। भा०- जीवाहारो भण्णइ आयारो तेणिमंतु आयायं । छजीवणियज्झयणं तस्सऽहिगारा इमे होति ।।५।। जीवाधारो भण्यत आचारः, तत्परिज्ञानपालनद्वारेणेति भावः, येनैतदेवं तेनेदं आयातं अवसरप्राप्तम्, किं तदित्याहषड्जीवनिकाध्ययनम्, अत्रान्तरे अनुयोगद्वारोपन्यासावसरः, तथा चाह- तस्य षड्जीवनिकाध्ययनस्यार्थाधिकाराः एते भवन्ति वक्ष्यमाणलक्षणा इति गाथार्थः ।। तानाह
नि०-जीवाजीवाहिगमो चरित्तधम्मो तहेव जयणा य । उवएसो धम्मफलं छज्जीवणियाइ अहिगारा ।। २१६ ।। जीवाजीवाभिगमो जीवाजीवस्वरूपमभिगम्यतेऽस्मिन्नित्यभिगम इतिकृत्वा, स्वरूपे च सत्यभिगम्यत इति भावः, तथा । चारित्रधर्मः प्राणातिपातादिनिवृत्तिरूपः, तथैव यतना च पृथिव्यादिष्वारम्भपरिहारयत्नरूपा, तथा उपदेश: यथाऽऽत्मा न
षट्सु जीवनिकायेषु यो बुधः संयतः सदा । स एव भवति विज्ञेयः परमार्थेन संयतः ॥१॥
॥ १०
For Private and Personal Use Only