________________
Shri Mal
Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। १९१ ।।
www.kobatirth.org
प्रक्षयनिमित्तं प्रक्रामन्ति प्रवर्तन्ते, किंभूताः ? - महर्षयः साधव इति सूत्रार्थः ।। १३ ।। इदानीमेतेषां फलमाह- दुक्कराई ति सूत्रम्, अस्य व्याख्या एवं दुष्कराणि कृत्वौद्देशिकादित्यागादीनि तथा दुःसहानि सहित्वाऽऽतापनादीनि केचन तत्र देवलोकेषु सौधर्मादिषु, गच्छन्तीति वाक्यशेषः । तथा केचन सिद्ध्यन्ति तेनैव भवेन सिद्धिं प्राप्नुवन्ति । वर्तमाननिर्देश: सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः। नीरजस्का इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति सूत्रार्थः ।। १४ ।। येऽपि चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्च्युता आर्यदेशेषु सुकुले जन्मावाप्य शीघ्रं सिद्ध्यन्त्येतदाह- 'खवित्त'त्ति सूत्रम्, अस्य व्याख्या- ते देवलोकच्युताः क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्याह- संयमेन उक्तलक्षणेन तपसा च, एवं प्रवाहेण सिद्धिमार्गं सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातार आत्मादीनां परिनिर्वान्ति सर्वथा सिद्धिं प्राप्नुवन्ति, अन्ये तु पठन्ति 'परिनिव्वुड'त्ति, तत्रापि प्राकृतशैल्या छान्दसत्वाच्चायमेव पाठो ज्यायान् इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १५ ।। उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववद्रष्टव्याः । इति व्याख्यातं क्षुल्लकाचारकथाध्ययनम् ।। ३ ।
|| सूरिपुरन्दर श्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्तौ तृतीयमध्ययनं क्षुल्लिकाचारकथाख्यं समाप्तमिति ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयमध्ययनं क्षुल्लिकाचारकथा, सूत्रम्
११-१५ साधुस्वरूपम्।
।। १९१ ।।