________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ।।१८४॥
चारकथा,
नटनर्तकजल्लमुष्टिककथा च एषा भवेद्विकथा प्रेक्षणीयकानां नटो रमणीयः यद्वा नर्तकः यद्वा जल्लः, जल्लो नाम वरत्राखेलकः तृतीयमध्ययन मुष्टिको मल्लः, इत्यादिलक्षणा विकथा, कथालक्षणविरहादिति गाथार्थः ।। २०७।। उक्ता विकथा, इदानीं प्रज्ञापकापेक्षया- क्षुल्लिका1ऽऽसांप्राधान्यमाह- एता एवोक्तलक्षणा: कथाः प्रज्ञापयतीति प्रज्ञापकः प्रज्ञापकश्चासौ प्ररूपकश्चेति विग्रहस्तमवबोधकप्ररूपक
नियुक्तिः न तु घरट्टभ्रमणकल्पं यतोन किश्चिदवगम्यत इत्यर्थः समाश्रित्य प्राप्य किमित्याह-अकथा वक्ष्यमाणलक्षणा कथा चोक्तस्वरूपा: २०६-२१५
मिश्राकथा विकथा चोक्तस्वरूपैव भवति, पुरुषान्तरं- श्रोतृलक्षणं प्राप्य- आसाद्य, साध्वसाध्वाशयवैचित्र्यात् सम्यक्श्रुतादिवत्, अन्ये ।
विकथातु प्रज्ञापकं- मूलकर्तारं प्ररूपकं- तत्कृतस्याख्यातारमिति व्याचक्षते, न चैतदतिशोभनम्, 'पण्णवयपरूवगे समासज्ज'त्ति कथाविश्व। पाठप्रसङ्गादिति गाथार्थः ।। २०८ ।। इदानीमकथालक्षणमाह- मिथ्यात्वमिति-मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन यां काश्चिदज्ञानी कथां कथयति, अज्ञानित्वं चास्य मिथ्यादृष्टित्वादेव, यद्येवं नार्थोऽज्ञानिग्रहणेन मिथ्यात्ववेदकस्याज्ञानित्वाव्यभिचारादिति चेद्, न, प्रदेशानुभववेदकेन सम्यग्दृष्टिना व्यभिचारादिति, किंविशिष्टोऽसावित्याह- लिङ्गस्थो वा द्रव्यप्रव्रजितोऽङ्गारमर्दकादिः गृही वा यः कश्चिदितर एव सा एवं प्ररूपकप्रयुक्तयुक्त्या श्रोतर्यपि प्रज्ञापकतुल्यपरिणामनिबन्धना अकथा देशिता समये, ततः प्रतिविशिष्टकथाफलाभावादिति गाथार्थः ।। २०९।। अत्रैव प्रक्रमे कथामाह- तपःसंयमगुणान् धारयन्ति तच्छीलाश्चेति तप:संयमगुणधारिण: यां काञ्चन चरणरता:- चरणप्रतिबद्धा न त्वन्यत्र निदानादिना कथयन्ति सद्भावपरमार्थम्, किंविशिष्टमित्याह- सर्वं जगजीवहितम्, नतु व्यवहारतः कतिपयसत्त्वहितमित्यर्थः, तुशब्दस्यावधारणार्थत्वात्, सैव कथा निश्चयतो देशिता समये, निर्जराख्यस्वफलसाधनात्कर्तृणां श्रोतृणामपि चेतःकुशलपरिणामनिबन्धना कथैव, नो चेद्भाज्येति गाथार्थः ।। २१० ।। इहैव विकथामाह- यःसंयतःप्रमत्तः- कषायादिना प्रमादेन रागद्वेषवशं गतः सन् न तु मध्यस्थः
||१८४।।
For Private and Personal Use Only