________________
Shri Mahavia Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१६३॥
चारकथा,
पद्याचाराः।
दर्शनं सम्यग्दर्शनमुच्यते, न चक्षुरादिदर्शनम्, तच्च क्षायोपशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचार इत्येवं तृतीयमध्ययनं शेषेष्वपि योजनीयम्, भावार्थ तु वक्ष्यति- एष भावाचारः पञ्चविधो भवति ज्ञातव्यः, इति गाथाक्षरार्थः। अधुना भावार्थ उच्यते-- क्षुल्लिकातत्र 'यथोद्देशं निर्देश' इत्यादौ दर्शनाचारभावार्थः, दर्शनाचारश्वाष्टधा, तथा चाह गाथा- निस्संकी त्यादि, निःशङ्कित इत्यत्र
नियुक्तिः शङ्का शङ्कितं निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको १८१-१८७ भव्योऽपरस्त्वऽभव्य इति शइते, सर्वशङ्का त प्राकतनिबद्धत्वात्सकलमेवेदं परिकल्पितं भविष्यतीति, न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तञ्च- बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाशिणाम्। अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥१॥ दृष्टेष्टाविरुद्धश्चेति, उदाहरणं चात्र पेयापेयको यथाऽऽवश्यके, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोरभेदमाह, तदेकान्तभेदे । त्वदर्शनिन इव तत्फलाभावात मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्येति तथा निष्काहितो-देशसर्वकाङ्कारहितः, तत्र देशकासा एकं दर्शनं काङ्कति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोचयति षड्जीवनिकायपीडामसत्प्ररूपणां च, उदाहरणंचात्र राजामात्यो यथाऽऽवश्यक इति २। विचिकित्सा-मतिविभ्रमः निर्गता विचिकित्सा-मतिविभ्रमो यतोऽसौ निर्विचिकित्सः,साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतोममास्मात्फलं भविष्यति न भविष्यतीति?, क्रियायाः कृषीवलादिषूभयोपलब्धेरिति विकल्परहितः, न ह्यविकल्प उपाय उपयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चयो निर्विचिकित्स उच्यते एतावताऽशेन निःशङ्किताद्भिन्नः, उदाहरणं चात्र विद्यासाधको यथाऽऽवश्यक इति, यद्वा निर्विज्जुगुप्सः- साधुजुगुप्सारहितः,
1॥१६३॥
CRRRRRRRRRB
For Private and Personal Use Only