SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १५३ ।। www.kobatirth.org समुत्पन्ना अगन्धने । नागानां हि भेदद्वयं गन्धनाश्चागन्धनाश्च, , तत्थ गंधणा णाम जे डसिए मंतेहिं आकट्टिया तं विसं वणमुहाओ आवियंति, अगंधणाओ अवि मरणमज्झवस्संति ण य वंतमावियंति । उदाहरणं द्रुमपुष्पिकायामुक्तमेव । उपसंहारस्त्वेवं भावनीयः- यदि तावत्तिर्यञ्चोऽप्यभिमानमात्रादपि जीवितं परित्यजन्ति न च वान्तं भुञ्जते तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् विषयान् वान्तान् भोक्ष्यें ? इति सूत्रार्थः । अस्मिन्नेवार्थे द्वितीयमुदाहरणं- यदा किल अरिट्टणेमी पव्वइओ तया रहणेमी तस्स जेट्ठो भाउओ राइमई उवयरड़, जइ णाम एसा ममं इच्छिज्जा, सावि भगवई निव्विण्णकामभोगा, णायं च तीए जहा एसो मम अज्झोववण्णो, अण्णया य तीए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण य तीए वंतं, भणियं च एवं पेज्जं पियाहि, तेण भणियं कहं वन्तं पिज्जइ ?, तीए भणिओ जड़ न पिज्जइ वंतं तओ अहंपि अरिट्ठनेमिसामिणा वंता कहं पिविउमिच्छसि ? । तथा ह्यधिकृतार्थसंवाद्येवाह धिरत्थु ते जसोकामी, जो तं जीवियकारणा। वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ।। सूत्रम् ७ ।। तत्र राजीमतिः किलैवमुक्तवती- धिगस्तु धिक्शब्दः कुत्सायां 'अस्तु' भवतु ते तव, पौरुषमिति गम्यते, हे यशस्कामिन्निति सासूयं क्षत्रियामन्त्रणम्, अथवा अकारप्रश्लेषादयशस्कामिन्!, धिगस्तु तव यस्त्वं जीवितकारणात् असंयमजीवितहेतोः ® तंत्र गन्धना नाम ये दष्टा मन्त्रैराकृष्टास्तद्विषं व्रणमुखादापिबन्ति, अगन्धना अपि मरणमध्यवस्यन्ति न च वान्तमापिबन्ति इति । यदा किलारिष्टनेमिः प्रव्रजितः तदा रथनेमिस्तस्य ज्येष्ठो भ्राता राजीमतीमुपचरति, यदि नामैषा मामिच्छेत्, सापि भगवती निर्विण्णकामभोगा, ज्ञातं च तया यथैष मयि अध्युपपन्नः । अन्यदा च तया मधुघृतसंयुक्ता पेया पीता, रथनेमिरागतः, मदनफलं मुखे कृत्वा च तया वान्तम्, भणितं च एनां पेयां पिब, तेन भणितं कथं वान्तं पीयते ?, तया भणित- यदि न पीयते वान्तं तदाऽहमपि अरिष्टनेमिस्वामिना वान्ता कथं पातुमिच्छसि ? Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only द्वितीयमध्ययनं श्रामण्य पूर्वकम्, सूत्रम् ७ | संयमस्थैर्यो| पदेशः रथनेम्यु |दाहरणं च । ।। १५३ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy