________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम्
श्रामण्य
पदेशः
दाहरणंच।
चायं बाह्यविधिमन्तरेण कर्तुं शक्यते अतस्तद्विधानार्थमाह
द्वितीयमध्ययन आयावयाहि चय सोगमलं, कामे कमाही कमियं खुदुक्खं । छिंदाहि दोसं विणएज्ज राग, एवं सुही होहिसि संपराए। सूत्रम् ॥
पूर्वकम, संयमगेहान्मनसोऽनिर्गमनार्थं आतापय आतापनां कुरु, एकग्रहणे तज्जातीयग्रहणमिति न्यायाद्यथानुरूपमूनोदरतादेरपि विधिः,
सूत्रम् ५-६ अनेनात्मसमुत्थदोषपरिहारमाह, तथा त्यज सौकुमार्य परित्यज सुकुमारत्वम्, अनेन तूभयसमुत्थदोषपरिहारम्, तथाहि
संयमस्थैर्योसौकुमार्यात्कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् प्राग्निरूपितस्वरूपान् क्राम उल्लङ्गय,
रथनेम्युयतस्तैः क्रान्तैःक्रान्तमेव दुःखम्, भवति इति शेषः, कामनिबन्धनत्वाद्दुःखस्य, खुशब्दोऽवधारणे, अधुनाऽऽन्तरकामक्रमणविधिमाह- छिन्द्धि द्वेषं व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना, क्व?, कामेष्विति गम्यते, शब्दादयो हि विषया एव कामा इतिकृत्वा । एवं कृते फलमाह-एवं अनेन प्रकारेण प्रवर्तमानः, किं?-सुखमस्यास्तीति सुखी भविष्यसि, क?संपराये संसारे, यावदपवर्ग न प्राप्स्यसि तावत्सुखी भविष्यसि, 'संपराये' परीषहोपसर्गसंग्राम इत्यन्ये। कृतं प्रसङ्गेनेति । सूत्रार्थः ।। ५ ।। किं च संयमगेहान्मनस एवानिर्गमनार्थमिदं चिन्तयेत्, यदुत
पक्खंदे जलियं जोई, धूमकेउंदुरासयं । नेच्छन्ति वंतयं भोत्तुं, कुले जाया अगंधणे ॥सूत्रम् ६॥ प्रस्कन्दन्ति अध्यवस्यन्ति ज्वलितं ज्वालामालाकुलं न मुर्मुरादिरूपम्, कं?, ज्योतिष अग्निं धूमकेतुं धूमचिह्न धूमध्वज नोल्कादिरूपं दुरासदं दुःखेनासाद्यतेऽभिभूयत इति दुरासदस्तम्, दुरभिभवमित्यर्थः, चशब्दलोपात् न चेच्छन्ति- न च वाञ्छन्ति वान्तं भोक्तुं परित्यक्तमादातुम, विषमिति गम्यते, के?- नागा इति गम्यते, किंविशिष्टा इत्याह- कुले जाताः ।।
।। १५२॥
For Private and Personal Use Only