________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
38808
श्रामण्य
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||१४६॥
सूत्रम् २
स्वरूपः।
कथानकं च।
वत्थगंधमलंकार, इत्थीओ सयणाणि य। अच्छंदाजे न भुंजंति, न से चाइत्ति वुच्चड़।। सूत्रम् २ ।।
द्वितीयमध्ययन वस्त्रगन्धालङ्कारानि ति, अत्र वस्त्राणि-चीनांशुकादीनि गन्धा:- कोष्ठपुटादयः अलङ्कारा:- कटकादयः, अनुस्वारोऽ
पूर्वकम्, लाक्षणिकः, स्त्रियोऽनेकप्रकाराः, शयनानि पर्यादीनि, चशब्द आसनाद्यनुक्तसमुच्चयार्थः, एतानि वस्त्रादीनि किम्?, 'अच्छन्दाः' अस्ववशा ये केचन न भुञ्जते नासेवन्ते, किं बहुवचनोद्देशेऽप्येकवचननिर्देशः?, विचित्रत्वात्सूत्रगतेर्विपर्ययश्च । त्यागिभवत्येवेति कृत्वा, आह- नासी त्यागीत्युच्यते सुबन्धुवन्नासौ श्रमण इति सूत्रार्थः ॥ २॥ कः पुनः सुबन्धुरिति?, अत्र
सुबन्धुकथानकं- जया णंदो चंदगुत्तेण णिच्छुडो, तया तस्स दारेण निगच्छंतस्स दुहिया चंदगुत्ते दिहिँ बंधेइ, एयं अक्खाणयं जहा। आवस्सए जाव बिंदुसारो राया जाओ, णंदसंतिओ य सुबंधू णाम अमच्चो, सोचाणक्कस्स पदोसमावण्णो छिद्दाणि मग्गइ, अण्णया रायाणं विण्णवेइ- जइवि तुम्हे अम्हं वित्तं ण देह तहावि अम्हेहिं तुम्ह हियं वत्तव्वं, भणियं च- तुम्ह माया चाणक्केण मारिया, रण्णा धाई पुच्छिया, आमंति, कारणं ण पुच्छियं, केणवि कारणेण रण्णो य सगासं चाणक्को आगओ, जाव दिढेि न देई ताव चाणक्को चिंतेइ-रुट्ठो एस राया, अहं गयाउओत्ति काउं दव्वं पुत्तपउत्ताणं दाऊणं संगोवित्ता य गंधा संजोइआ, पत्तयं च लिहिऊण सोऽवि जोगो समुग्गे छूढो, समग्गो य चउसु मंजूसासु छूढो, तासु छभित्ता पुणो गन्धोवरए
यदा नन्दश्चन्द्रगुप्तेन निक्षिप्तः (निष्काशितः), तदा तस्य द्वारेण निर्गच्छतो पुत्री चन्द्रगुप्ते दृष्टिं बध्नाति, एतदाख्यानकं यथाऽऽवश्यके यावद्विन्दुसारो राजा जातः, नन्दसत्कश्च सुबन्धुनामाऽमात्यः, स चाणक्ये प्रद्वेषमापन्नः, छिद्राणि मार्गयति, अन्यदा राजानं विज्ञपयति यद्यपि यूयमस्मभ्यं वित्तं न दत्थ तथाप्यस्माभिर्युष्माकं हितं वक्तव्यम्, भणितं च- युष्माकं माता चाणक्येन मारिता, राजा धात्री पृष्टा, ओमिति, कारण न पृष्टम्, केनापि कारणेन राजश्व सकाशं चाणक्य आगतः, यावदृष्टिं न ददाति तावच्चाणक्यश्चिन्तयति- कष्ट एष राजा, अहं गतायुरितिकृत्वा द्रव्यं पुत्रपौत्रेभ्यो दत्त्वा संगोप्य च गन्धाः संयोजिताः, पत्रकं च लिखित्वा सोऽपि योगः समुद्रे क्षिप्तः, समुद्गश्च चतसृषु मञ्जूषासु क्षिप्तः, तासु क्षिप्त्वा पुनर्गन्धापवरके -
॥१४६॥
For Private and Personal Use Only