SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १४१ ।। www.kobatirth.org गाथार्थः ।। १७१ ।। अधुना पद्यमाह पद्यं तु, तुशब्दो विशेषणार्थः, भवति त्रिविधं त्रिप्रकारम्, सममर्धसमं च नाम विषमं च, कैः सममित्यादि ?, अत्राह- पादैरक्षरैश्च पादैश्चतुः पादादिभिरक्षरैः गुरुलघुभिः, अन्ये तु व्याचक्षते- समं यत्र चतुर्ष्वपि पादेषु समान्यक्षराणि, अर्धसमं यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च समान्यक्षराणि, विषमं तु सर्वपादेष्वेव विषमाक्षरमित्येवं विधिज्ञाः छन्दः प्रकारज्ञाः कवयो ब्रुवत इति गाथार्थः ।। १७२ ।। अधुना गेयमाह- तन्त्रीसमं तालसमं वर्णसमं ग्रहसमं लयसमं च काव्यं तु भवति, तुशब्दोऽवधारणार्थ एव, गीयत इति गेयम्, पञ्चविधं उक्तैर्विधिभिः गीतसंज्ञायां गेयाख्यायाम्, तत्र तन्त्रीसम वीणादितन्त्रीशब्देन तुल्यं मिलितं च, एवं तालादिष्वपि योजनीयम्, नवरं ताला - हस्तगमाः, वर्णा- निषादपञ्चमादयः, ग्रहा उत्क्षेपाः, प्रारम्भरसविशेषा इत्यन्ये, लया:- तन्त्रीस्वनविशेषाः । तत्थ किल कोणएण तंती छिप्पड़ तओ णहेहि अणुमज्जिज्जइ, तत्थ अण्णारिसो सरो उट्ठेइ, सो लयो त्ति गाथार्थः ।। १७३ ।। साम्प्रतं चौर्णं पदमाह- अर्थो बहुलो यस्मिंस्तदर्थबहुलं क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः, क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं वदन्ति ।। १ ॥ ततश्चैभिः प्रकारैर्बह्वर्थम्, महान्- प्रधानो हेयोपादेयप्रतिपादकत्वेनार्थी यस्मिंस्तन्महार्थम्, हेतुनिपातोपसर्गैर्गभीरं तत्रान्यथाऽनुपपत्तिलक्षणो हेतु:, यथा- मदीयोऽयमश्वो विशिष्टचिह्नोपलक्षितत्वात्, चवाखल्वादयो निपाताः, पर्युतसमवादय उपसर्गाः, एभिरगाधम्, बहुपादं अपरिमितपादं अव्यवच्छिन्नं श्लोकवद्विरामरहितम्, गमनयैः शुद्धम्, गमाः - तदक्षरोच्चारणप्रवणा भिन्नार्थाः, यथा इह खलु छज्जीवणिया० कयरा खलु सा छज्जीवणिया० इत्यादि, नया:- नैगमादयः प्रतीताः, तुरवधारणे, गमनयशुद्धमेव चौर्णं पदं ब्रह्मचर्याध्ययनपदवदिति गाथार्थः ।। १७४ ।। उक्तं ग्रथितम्, प्रकीर्णकं लोकादवसेयम्, उक्तं ® तत्र किल कोणकेन तन्त्री स्पृश्यते, ततो नखैरनुमृद्यते, तत्रान्यादृशः स्वर उत्तिष्ठते, स लय इति । इह खलु षड्जीवनिका० कतरा खलु सा षड्जीवनिका० । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir द्वितीयमध्ययनं श्रामण्य पूर्वकम्, सूत्रम् १ सङ्कल्पवशस्य असमर्थत्वम् । निर्युक्तिः १६९-१७४ भावपदं ग्रथितपदं च । ।। १४१ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy