SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १४० ।। www.kobatirth.org अतोऽन्यत्प्रकीर्णकं- प्रकीर्णककथोपयोगिज्ञानपदमित्यर्थः, ग्रथितं चतुष्प्रकारं गद्यादिभेदात् प्रकीर्णकं भवत्यनेकविधम्, उक्तलक्षणत्वादेवेति गाथार्थ: ।। १६९ ।। ग्रथितमभिधातुकाम आह नि०- गजं पज्जं गेयं चुण्णं च चउव्विहं तु गहियपयं । तिसमुट्ठाणं सव्वं इइ बेंति सलक्खणा कइणो ।। १७० ।। नि०- महुरं हेउनिजुत्तं गहियमपायं विरामसंजुत्तं । अपरिमियं चऽवसाणे कव्वं गजं ति नायव्वं ।। १७१ ।। नि०- पजं तु होइ तिविहं सममद्धसमं च नाम विसमं च। पाएहिं अक्खरेहिं य एव विहिण्णू कई बेंति ।। १७२ ।। नि०- तंतिसमं तालसमं वण्णसमं गहसमं लयसमं च । कव्वं तु होइ गेयं पंचविहं गीयसन्नाए ।। १७३ ।। नि०- अत्थबहुलं महत्थं हेउनिवा ओवसग्गगंभीरं । बहुपायमवोच्छिन्नं गमणयसुद्धं च चुण्णपयं ।। १७४ ।। नोअवराहपयं गयं । गद्यं पद्यं गेयं चौर्णं च चतुर्विधमेव ग्रथितपदम्, एभिरेव प्रकारैर्ग्रथनात्, एतच्च त्रिभ्यो धर्मार्थकामेभ्यः समुत्थानं तद्विषयत्वेनोत्पत्तिरस्येति त्रिसमुत्थानं सर्वं निरवशेषम्, आह एवं मोक्षसमुत्थानस्य गद्यादेरभावप्रसङ्गः, न, तस्य धर्मसमुत्थान एवान्तर्भावात्, धर्मकार्यत्वादेव मोक्षस्येति, लौकिकपदलक्षणमेवैतदित्यन्ये, अतस्त्रिसमुत्थानं सर्वम्, 'इड' एवं ब्रुवते सलक्षणा लक्षणज्ञाः कवय इति गाथार्थः ।। १७० ।। गद्यलक्षणमाह- मधुरं सूत्रार्थोभयैः श्रव्यं हेतुनियुक्तं सोपपत्तिकं ग्रथितं बद्धमानुपूर्व्या अपादं विशिष्टच्छन्दोरचनायोगात्पादवर्जितं विरामः- अवसानं तत्संयुक्तमर्थतो न तु पाठतः इत्येके, जहा जिणवरपादारविंदसंदाणिउरुणिम्मल्लसहस्स एवमादि असमाणिउं न चिट्ठइत्ति, यतिविशेषसंयुक्तं अन्ये, अपरिमितं चावसाने बृहद्भवतीत्येके, अन्ये त्वपरिमितमेव भवति बृहदित्यर्थः, अवसाने मृदु पठ्यत इति शेषः, काव्यं गद्यम्, इति एवं प्रकारम्, ज्ञातव्यमिति ® यथा जिनवरपादारविन्दसंदानितोरुनिर्मलसहस्र एवमाद्यसमाप्य न तिष्ठति । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir द्वितीयमध्ययनं श्रामण्य पूर्वकम्, सूत्रम् १ सङ्कल्प वशस्य | असमर्थत्वम् । निर्युक्तिः | १६९-१७४ भावपदं ग्रथितपदं च । ।। १४० ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy