SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारिo वृत्तियुतम् ।। १३३ ।। www.kobatirth.org नामादिक्रमेण, नामस्थापने पूर्ववत्, द्रव्यश्रमणो द्विधा- आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽभिलापभेदेन द्रुमवदवसेयः, तं चानेनोपलक्षयति- दव्वे सरीरभविउ त्ति । भावश्रमणोऽपि द्विविध एव- आगमतो ज्ञातोपयुक्तः नोआगमतस्तु चारित्रपरिणामवान् यतिः, तथा चाह- भावतस्तु संयतः श्रमण इति गाथार्थः ।। १५३ ।। अस्यैव स्वरूपमाह नि०- जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं । न हणड़ न हणावे व सममणई तेण सो समणो ।। १५४ ।। यथा मम न प्रियं दुःखम्, प्रतिकूलत्वात् ज्ञात्वैवमेव सर्वजीवानां दुःखप्रतिकूलत्वं न हन्ति स्वयं न घातयत्यन्यैः, चशब्दाद् घ्नन्तं च नानुमन्यतेऽन्यम्, इत्यनेन प्रकारेण समं अणति तुल्यं गच्छति यतस्तेनासौ श्रमण इति गाथार्थः ।। १५४ ।। नि०- नत्थिय सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु। एएण होइ समणो एसो अन्नोऽवि पज्जाओं ।। १५५ ।। नास्ति च सि तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः ।। १५५ ।। नि०- तो समणो जड़ सुमणो भावेण य जड़ न होइ पावमणो। सयणे य जणे य समो समो य माणावमाणेसु ।। १५६ ।। ततः श्रमणो यदि सुमनाः, द्रव्यमनः प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेव दर्शयति स्वजने च जने च समः, समश्च मानापमानयोरिति गाथार्थः ।। १५६ ।। नि०- उरगगिरिजलणसागरनहयलतरुगणसमो य जो होई। भमरमिगधरणिजलरुहरविपवणसमो जओ समणो ।। १५७ ।। उरगसमः परकृतबिलनिवासित्वादाहारानास्वादनात्संयमैकदृष्टित्वाच्च, गिरिसमः परीषहपवनाकम्प्यत्वात्, ज्वलनसमः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir द्वितीयमध्ययनं श्रामण्य पूर्वकम्, नियुक्ति: १५३-१५७ श्रमण निक्षेपाः। ।। १३३ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy