________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyarmandir
www.kobairthorg
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१३२॥
पूर्वकम्,
बामण्य
श्रमण
।। अथ द्वितीयमध्ययनं श्रामण्यपूर्वकाख्यम् ।।
द्वितीयमध्ययन व्याख्यातं द्रुमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्वकाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने धर्मप्रशंसो
श्रामण्यक्ता, सा चेहैव जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्य
नियुक्तिः१५२ मित्येतदुच्यते, उक्तं च- जस्स धिई तस्स तवो जस्स तवो तस्स सुग्णई सुलभा । जे अधिड्मंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं अभिसम्बन्ध:॥१॥ अनेनाभिसंबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नवरं नामवदध्ययनविषयत्वादुपक्रमादि
पूर्वकस्य च द्वारकलापस्य व्याप्तिप्राधान्यतो नामनिष्पन्नं निक्षेपमभिधित्सुराह नियुक्तिकारः
निक्षेपः।
नियुक्तिः१५३ नि०-सामण्णव्वगस्स उ निक्खेवो होइ नामनिप्फन्नो। सामण्णस्स चउको तेरसगो पुव्वयस्स भवे ।। १५२॥ श्राम्यतीति श्रमणः, (श्राम्यति तपस्यति) तद्भावः श्रामण्यम्, तस्य पूर्व-कारणं श्रामण्यपूर्वं तदेव श्रामण्यपूर्वकमिति
निक्षेपाः। संज्ञायां कन्, श्रामण्यकारणं च धृतिः, तन्मूलत्त्वात्तस्य, तत्प्रतिपादकं चेदमध्ययनमिति भावार्थः । अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः, कोऽसौ?- अन्यस्याश्रुतत्त्वात् श्रामण्यपूर्वकमित्ययमेव, तुशब्दः सामान्यविशेषवन्नामविशेषणार्थः, श्रामण्यपूर्वकमिति सामान्यम्, श्रामण्यं पूर्वं चेति विशेषः, तथा चाह- श्रामण्यस्य चतुष्ककस्त्रयोदशकः पूर्वकस्य भवेनिक्षेप इति गाथार्थः ।। १५२ ॥ निक्षेपमेव विवृणोति
नि०- समणस्स उ निक्लेवो चउक्कओ होइ आणुपुव्वीए। दव्वे सरीरभविओ भावेण उ संजओ समणो ।।१५३ ।। श्रमणस्य तु तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः, निक्षेपश्चतुर्विधो भवति, आनुपूर्त्या : 0 यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिः सुलभा । येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषाम् ॥ १॥ 0 रूढनामेति। 0 नामनिष्पन्न निक्षेपस्य ।
॥१३२॥
For Private and Personal Use Only