________________
Shri Mahavir Jan Aradhana Kendra
www.kabalirth.org
Acharya Shes Kalassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१३१॥
अध्ययने क्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वानेच्छति गुणभूते चेच्छतीति
प्रथममध्ययन गाथार्थः ॥ १४९॥ उक्तः क्रियानयः, इत्थं ज्ञाननयक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह
दुमपुष्पिका,
सूत्रम् ४-५ किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसंभवाद्, आचार्यः पुनराह- अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुप-।
उपनयशुद्धिः दर्शयन् पुनराह
नियुक्तिः नि०-सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जंचरणगुणट्ठिओसाहू ॥१५०॥
१५०-१५१ सर्वेषा मिति मूलनयानामपिशब्दात्तद्भेदानां च द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत् सर्वनयविशुद्ध सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः यस्मात्सर्वनया एव(सर्वेऽपि नया)भावविषयं निक्षेपमिच्छन्तीति गाथार्थः।। १५० ॥
नि०- दुमपुफियनिजुत्ती समासओ वणिया विभासाए। जिणचउद्दसपुव्वी वित्थरेण कहयंति से अढें ॥ १५१ ॥
दुमपुष्फियनिजुत्ती समत्ता। सुगमा। इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां द्रुमपुष्पिकाध्ययनं समाप्तम् । व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया। किश्चित् सद्धर्मलाभमखिलं लभतां भव्यो जनस्तेन ॥ १॥
॥ सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती
प्रथममध्ययनं दुमपुष्पिकाख्यं समाप्तमिति॥
208
SEARRRRRRRRR88888888000
For Private and Personal Use Only