________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् ४-५ उपनयशुद्धिः नियुक्तिः१४८ दशम निगमनम्। नियुक्तिः १४९(१) ज्ञाननयः।
श्रीदश- ऽवयवः, इदानीं नवममधिकृत्याह- वर्षातृणानि तस्य प्रतिषेधे इति, एतच्च भाष्यकृता प्राक् प्रपञ्चितमेवेति प्रतन्यत इति वैकालिक
गाथार्थः ॥ १४७ ।। उक्तो नवमोऽवयवः, साम्प्रतं चरममभिधित्सुराहश्रीहारिक वृत्तियुतम् नि०- तम्हा उ सुरनराणं पुजत्ता मंगलं सया धम्मो । दसमो एस अवयवो पइनहेऊ पुणोवयणं ॥१४८॥ ।। १२८॥ यस्मादेवं तस्मात् सुरनराणां देवमनुष्याणां पूज्यत इति पूज्यस्तद्धावस्तस्मात् पूज्यत्वात् मङ्गलं प्राग्निरूपितशब्दार्थं सदा
सर्वकालं धर्मः प्रागुक्तः, दशम एषोऽवयव इति सङ्ख्याकथनम्, किंविशिष्टोऽयमित्यत आह- प्रतिज्ञाहेत्वोः पुनर्वचनं पुनर्हेतुप्रतिज्ञावचनमिति गाथार्थः ॥ १४८ ।। उक्तं द्वितीयं दशावयवम्, साधनाङ्गता चावयवानां विनेयापेक्षया विशिष्टप्रतिपत्तिजनकत्वेन भावनीयेति । उक्तोऽनुगमः, साम्प्रतं नया उच्यन्ते-ते च नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति, स्वरूपं चैतेषामध आवश्यकसामायिकाध्ययने न्यक्षेण प्रदर्शितमेवातो नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते- ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं- ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात् तथा चाह
नि०-णायंमि गिण्हियव्वे अगिण्हियव्वंमिचेव अत्थंमि । जइयव्वमेव इइ जो उवएसो सो नओ नामं ।। १४९(१) ।। Bणायमि त्ति ज्ञाते सम्यक्परिच्छिन्ने गिहियव्वे त्ति ग्रहीतव्य उपादेये अगिव्हियवंमि त्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः,
चशब्दः खलुभयोर्ग्रहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थः उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्य:- ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये चार्थे तु ज्ञात एव नाज्ञाते, अत्थंमि त्ति अर्थे ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यःम्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयः तृणादिः, आमुष्मिको
॥१२८।।
For Private and Personal Use Only