________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsun Gyanmandie
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१२७॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् ४-५ उपनयशुद्धिः नियुक्तिः १४६-१४७ सप्तमोटष्टान्तः अटम आशङ्का
गुणयुक्तत्वादिति भावना, दृष्टान्तप्रतिषेध इति विपक्षशब्दलोपाद् दृष्टान्तविपक्षप्रतिषेधः, किं?- षष्ठ एषोऽवयवः, तुर्विशेषणार्थः, किं विशिनष्टि?- सर्वोऽप्ययमनन्तरोदितः प्रतिज्ञादिविपक्षप्रतिषेधः पञ्चप्रकारोऽप्येक एवेति गाथार्थः ।। १४५॥ षष्ठमवयवमभिधायेदानीं सप्तमं दृष्टान्तनामानमभिधातुकाम आह
नि०- अरिहंत मग्गगामी दिटुंतो साहुणोऽवि समचित्ता। पागरएसु गिहीसु एसंते अवहमाणा उ॥१४६ ।। पूजामर्हन्तीत्यर्हन्तः, न रुहन्तीति वा अरुहन्तः, किं?- दृष्टान्त इति सम्बन्धस्तथा मार्गगामिन इति प्रक्रमात्तदुपदिष्टेन मार्गेण गन्तुं शीलं येषां त एव गृह्यन्ते, के च त इत्यत- आह- साधवः साधयन्ति सम्यग्दर्शनादियोगैरपवर्गमिति साधवः, तेऽपि दृष्टान्त इति योगः, किंभूताः?- समचित्ता रागद्वेषरहितचित्ता इत्यर्थः, किमिति तेऽपि दृष्टान्त इति?, अहिंसादिगुणयुक्तत्वात्, आह च- पाकरतेषु आत्मार्थमेव पाकसक्तेषु गृहिषु अगारिषु एषन्ते गवेषयन्ति पिण्डपातमित्यध्याहारः, किं कुर्वाणा इत्यत आह-अवहमाणा उन घ्नन्तोऽघ्नन्तः, तुरवधारणार्थः, ततश्चाघ्नन्त एव, आरम्भाकरणेन पीडामकुर्वाणा इत्यर्थः । एवं द्विविधोऽपि दृष्टान्त उक्तः, दृष्टान्तवाक्यं चेदम्, स तु संस्कृत्य कर्त्तव्योऽहंदादिवदिति गाथार्थः ।। १४६।। उक्तः सप्तमोऽवयवः, साम्प्रतमष्टममभिधित्सराह
नि०- तत्थ भवे आसंका उद्दिस्स जइवि कीरए पागो। तेण र विसमं नायं वासतणा तस्स पडिसेहे ।। १४७ ।। तत्र तस्मिन् दृष्टान्ते भवेदाशङ्का भवत्याक्षेपः, यथा उद्दिश्य अङ्गीकृत्य यतीनपि संयतानपि, अपिशब्दादपत्यादीन्यपि, क्रियते निर्वय॑ते पाकः, कैः?- गृहिभिरिति गम्यते, ततः किमित्यत आह- तेन कारणेन, र इति निपातः किलशब्दार्थः, विषमं अतुल्यं ज्ञातं उदाहरणम्, वस्तुत: पाकोपजीवित्वेन साधूनामनवद्यवृत्त्यभावादिति, भावितमेवैतत् पूर्वम्, इत्यष्टमो
स्तत्प्रतिषेधः।
॥ १२७॥
For Private and Personal Use Only