________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsur Gyarmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥१२९॥
ज्ञानमयः।
ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे यतितव्यमेवे ति प्रथममध्ययन अनुस्वारलोपाद्यतितव्यम्, एवं- अनेन प्रक्रमेणैहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः।।
दुमपुष्पिका,
सूत्रम् ४-५ इत्थं चैतदङ्गीकर्तव्यम्, सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तं- विज्ञप्तिः फलदा पुंसां, न क्रिया ।
उपनयशुद्धिः फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात् ॥ १॥ तथाऽऽमुष्मिकफलप्राप्त्यर्थिनापि ज्ञात एव यतितव्यम्, तथा नियुक्तिः
१४९(१) चागमोऽप्येवमेव व्यवस्थितः, यत उक्तं- पढमं नाणं तओ दया, एवं चिट्ठ सव्वसंजए। अन्नाणी किं काही?, किंवा णाहिति । छेयपावगं?, इतश्चैतदेवाङ्गीकर्त्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमःगीयत्थो य विहारो बीओ गीयत्थमीसिओ चेव। इत्तो तइयविहारो णाणुनाओ जिणवाहि॥१॥यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं न प्रतिपद्यत इत्यभिप्रायः । एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकम(प्य)ङ्गीकृत्य विशिष्टफलसाधकत्वंतस्यैव विज्ञेयम्, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षांप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम्, इति जो उवएसो सोणओणाम ति इति एवमुक्तेन न्यायेन य उपदेशो- ज्ञानप्राधान्यख्यापनपरः स नयो । नाम- ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु। तत्कार्यत्वात्तदायत्तत्वान्नेच्छति, गुणभूते चेच्छति इति गाथार्थः ।। १४९(१) ।। उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, -
0प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः। अज्ञानी किं करिष्यति? किं वा ज्ञास्यति छेकपापकम् ॥१॥0गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितश्चैव । इतस्तृतीयो विहारो नानुज्ञातो जिनवरैः ।। १॥
||१२९।।
For Private and Personal Use Only