SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥ ११८॥ प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् ४-५ उपनयशुद्धिः १३०-१३३ इन्द्रियदमनेन, अनयोश्च स्वरूपमधस्तपसि प्रतिपादितमेव, अत्र चोपन्यस्तगाथाचरमदलस्यावसरः दान्ता इति पुनःपदे सौत्रे, किं?- ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः ॥ १२९ ।। किंविशिष्टो वाक्यशेष:?, दान्ता ईर्यादिसमिताश्च । तथा चाह नि०-जह इत्थ चेव इरियाइएसुसव्वंमि दिक्खियपयारे । तसथावरभूयहियं जयंति सब्भावियं साहू ।। १३०॥ यथा अत्रैव अधिकृताध्ययने भ्रमरोपमयैषणासमितौ यतन्ते, तथा ईर्यादिष्वपि तथा सर्वस्मिन् दीक्षितप्रचारे साध्वाचरितव्य ।। | नियुक्तिः इत्यर्थः, किं?- सस्थावरभूतहितं यतन्ते साद्भाविकं पारमार्थिकं साधव इति गाथार्थः ।। १३० ।। अन्ये पुनरिदं गाथादल निगमनंनिगमने व्याख्यानयन्ति, न च तदतिचारु, यत आह तच्छुद्धिश्च। नि०-उवसंहारविसुद्धी एस समत्ता उ निगमणं तेणं । वुचंति साहणोत्ति (य) जेणं ते महयरसमाणा॥१३१॥ उपसंहारविशुद्धिरेषा समाप्ता तु, अधुना निगमनावसरः, तच्च सौत्रमुपदर्शयति- निगमनमिति द्वारपरामर्शः, तेनोच्यन्ते साधव इति, येन प्रकारेण ते मधुकरसमाना- उक्तन्यायेन भ्रमरतुल्या इति गाथार्थः ।। १३१ ॥ निगमनार्थमेव स्पष्टयति नि०- तम्हा दयाइगुणसुट्ठिएहिं भमरोव्व अवहवित्तीहिं। साहहिं साहिउ त्ति उक्किट्ठ मंगलं धम्मो ।।१३२ ।। तस्माद्दयादिगुणसुस्थितैः, आदिशब्दात् सत्यादिपरिग्रहः, भ्रमर इवावधवृत्तिभिः, कैः?- साधुभिः साधितो निष्पादितः, उत्कृष्टं मङ्गलं प्रधानं मङ्गलं धर्मः प्राग्निरूपितशब्दार्थ इति गाथार्थः ।। १३२ ।। इदानीं निगमनविशुद्धिमभिधातुकाम आह नि०- निगमणसुद्धी तित्थंतरावि धम्मत्थमुजया विहरे । भण्णइ कायाणं ते जयणं न मुणंति न करेंति ।। १३३ ।। निगमनशुद्धिः प्रतिपाद्यते, अत्राह- तीर्थान्तरीया अपि चरकपरिव्राजकादयः, किं?- धर्मार्थं धर्माय उद्यता उद्युक्ता विहरन्ति, अतस्तेऽपि साधवः एवेत्यभिप्रायः । भण्यतेऽत्र प्रतिवचनम्, कायानां पृथिव्यादीनां 'ते' चरकादयः, किं- यतनां 1॥१९८॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy