________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
प्रथममध्ययन दुमपुष्पिका, सूत्रम् ४-५ उपनयशुद्धिः
॥११९॥
नियुक्तिः
१३४-१३५ निगमनंतच्छुद्धिश्च।
प्रयत्नकरणलक्षणांन मन्यन्ते(मुणन्ति) न जानन्ति न मन्वते वा तथाविधागमाश्रवणात्, न कुर्वन्ति, परिज्ञानाभावात्, भावितमे-। वेदमधस्तादिति गाथार्थः ।। १३३ ।। किंच
नि०- न य उग्गमाइसुद्धं भुजंती महुयरा वऽणुवरोही। नेव य तिगुत्तिगुत्ता जह साहू निचकालंपि।। १३४ ।। न चोद्गमादिशुद्धं भुञ्जते, आदिशब्दादुत्पादनादिपरिग्रहः, मधुकरा इव भ्रमरा इव सत्त्वानामनुपरोधिनः सन्तो, नैव च त्रिगुप्तिगुप्ताः, यथा साधवो नित्यकालमपि, एतदुक्तं भवति- यथा साधवो नित्यकालं त्रिगुप्तिगुप्ता एवं ते न कदाचिदपि, तत्परिज्ञानशून्यत्वात्, तस्मान्नैते साधव इति गाथार्थः ।। १३४ ।। साधव एव तु साधवः, कथं?, यतः
नि०- कार्य वायं च मणं च इंदियाईच पंच दमयंति। धारेंति बंभचेरं संजमयंति कसाए य ।।१३५॥ कार्य वाचं मनश्चेन्द्रियाणि च पञ्च दमयन्ति, तत्र कायेन सुसमाहितपाणिपादास्तिष्ठन्ति गच्छन्ति वा, वाचा निष्प्रयोजनं न । ब्रुवते प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन, मनसा अकुशलमनोनिरोधं कुशलमनउदीरणं च कुर्वन्ति, इन्द्रियाणि पञ्च दमयन्ति । इष्टानिष्टविषयेषु रागद्वेषाकरणेन, पञ्चेति साङ्खयपरिकल्पितैकादशेन्द्रियव्यवच्छेदार्थम्, तथा च वाक्पाणिपादपायूपस्थमनांसीन्द्रियाणि तेषामिति, धारयन्ति ब्रह्मचर्यम्, सकलगुप्तिपरिपालनात्, तथा संयमयन्ति कषायाँश्व, अनुदयेनोदयविफलीकरणेन चेति गाथार्थः ।। १३५॥
नि०-जंच तवे उजुत्ता तेणेसिं साहुलक्खणं पुण्णं । तो साहुणो त्ति भण्णति साहवो निगमणं चेयं ।। १३६ ।। यच्च तपसि प्राग्वर्णितस्वरूपे, किं?- उद्युक्ता उद्यता: तेन कारणेनैषां साधुलक्षणं पूर्ण अविकलम्, कथं?- अनेन प्रकारेण यथा साधवोऽनुपरोधिनः सन्तो भ्रमरा इव उद्गमादिशुद्धं भुञ्जते न तथा ते चरकादयः न च त्रिगुप्तिगुप्मा यथा साधवः।
॥ ११९॥
For Private and Personal Use Only