________________
Shri Mahavir Jain Aradhana Kendra
श्रीदश
वैकालिकं श्रीहारि० वृत्तियुतम्
।। ११७ ।।
www.kobatirth.org
कन्येति, तृतीयार्था चेह पञ्चमी, इयं चानियतवृत्तिनिमित्तं कृता, अहिंसानुपालनार्थम्, इदं च भावय (यिष्य) त्येवेति गाथार्थः
।। १२६ ।।
नि०- जह दुमगणा उ तह नगरजणवया पयणपायणसहावा । जह भमरा तह मुणिणो नवरि अदत्तं न भुंजंति ।। १२७ ।।
यथा द्रुमगणाः वृक्षसङ्घाताः स्वभावत एव पुष्पफलनस्वभावास्तथैव नगरजनपदा नगरादिलोकाः स्वयमेव पचनपाचनस्वभावा वर्तन्ते, यथा भ्रमरा इति, भावार्थं वक्ष्यति, तथा मुनयो नवरं एतावान्विशेषः अदत्तं स्वामिभिर्न भुञ्जन्त इति गाथार्थः ।। | १२७ ।। अमुमेवार्थं स्पष्टयति
नि०- कुसुमे सहावफुल्ले आहारंति भमरा जह तहा उ। भत्तं सहावसिद्धं समणसुविहिया गवेसंति ।। १२८ ।।
कुसुमे पुष्पे स्वभावफुल्ले प्रकृतिविकसिते आहारयन्ति कुसुमरसं पिबन्ति भ्रमरा मधुकरा 'यथा' येन प्रकारेण कुसुमपीडामनुत्पादयन्तः ' तथा ' तेनैव प्रकारेण भक्तं ओदनादि स्वभावसिद्धं आत्मार्थं कृतं उगमादिदोषरहितमित्यर्थः, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिताः शोभनानुष्ठानवन्त इत्यर्थः गवेषयन्ति अन्वेषयन्तीति गाथार्थः ।। १२८ ।। साम्प्रतं पूर्वोक्तो यो दोषः मधुकरसमा इत्यत्र तत्परिजिहीर्षयैव यावतोपसंहारः क्रियते तदुपदर्शयन्नाह
नि०- उवसंहारो भमरा जह तह समणावि अवहजीवित्ति । दंतत्ति पुण पयंमी नायव्वं वक्सेसमिणं ।। १२९ ।।
उपसंहार उपनयः, भ्रमरा यथा अवधजीविनः तथा श्रमणा अपि साधवोऽप्येतावतैवांशेनेति गाथादलार्थः । इतश्च भ्रमरसाधूनां नानात्वमवसेयम्, यत आह सूत्रकारः - 'नानापिण्डरया दन्ता' इति नाना- अनेकप्रकारोऽभिग्रहविशेषात्प्रतिगृहमल्पाल्पग्रहणाच्च पिण्ड- आहारपिण्डः, नाना चासौ पिण्डश्च नानापिण्डः, अन्तप्रान्तादिर्वा, तस्मिन् रता अनुद्वेगवन्तः, 'दान्ता'
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं
द्रुमपुष्पिका,
सूत्रम् ४-५
उपनयशुद्धिः
निर्युक्तिः
१२७-१२९ उपनयशुद्धीदोषपरिहारः ।
।। ११७ ।।