________________
Acharya Shri Kallassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥११६॥
वयं च वित्तिं लम्भामो, न य कोइ उवहम्मइ । अहागडेसुरीयंते, पुप्फेसु भमरा जहा ।। सूत्रम् ४॥
प्रथममध्ययन वयं च वृत्तिं लप्स्यामः प्राप्स्यामः तथा यथा न कश्चिदुपहन्यते, वर्तमानैष्यत्कालोपन्यासस्त्रैकालिकन्यायप्रदर्शनार्थः,
तुमपुष्पिका,
सूत्रम् ४-५ तथा चैते साधवः सर्वकालमेव यथाकृतेषु आत्मार्थमभिनिर्वर्तितेष्वाहारादिषु रीयन्ते गच्छन्ति, वर्त्तन्ते इत्यर्थः, पुष्पेषु भ्रमरा।
उपनयशुद्धिः यथा इति, एतच्च पूर्वं भावितमेवेति सूत्रार्थः ॥ ४॥ यतश्चैवमतो
नियुक्तिः
१२५-१२६ महुगारसमा बुद्धा, जे भवंति अणिस्सिया। नाणापिंडरया दंता, तेण वुचंति साहुणो।। सूत्रम् ॥
उपनयशुद्धीत्तिबेमि । पढमं दुमपुफियज्झयणं समत्तं ॥१॥
दोषपरिहारः मधुकरसमा भ्रमरतुल्याः बुध्यन्ते स्म बुद्धा- अधिगततत्त्वा इत्यर्थः, क एवंभूता इत्यत आह- ये भवन्ति भ्रमन्ति वा अनिश्रिताः कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राह
नि०- अस्संजएहिं भमरेहिं जड़ समा संजया खलु भवंति । एवं यं) उवमं किचा नूर्ण अस्संजया समणा ।।१२५ ।। असंयतैः कुतश्चिदप्यनिवृत्तैः भ्रमरैः षट्पदैः यदि समाः तुल्याः संयताःसाधवः, खल्विति समा एव भवन्ति, ततश्चासंज्ञिनोऽपि ते, अत एवैनामित्थंप्रकारामुपमां कृत्वा इदमापद्यते-नूनमसंयता:श्रमणा इति गाथार्थः ।। १२५ ।। एवमुक्ते सत्याहाचार्य:एतच्चायुक्तम्, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाच्चासंयतत्वस्येति । नियुक्तिकारस्त्वाह
नि०- उवमा खलु एस कया पुव्वुत्ता देसलक्खणोवणया। अणिययवित्तिनिमित्तं अहिंसअणुपालणट्टाए ।। १२६ ।। उपमा खलु एषा मधुकरसमेत्यादिरूपा कृता पूर्वोक्तात् पूर्वोक्तेन देशलक्षणोपनयाद् देशलक्षणोपनयेन, यथा चन्द्रमुखी
||११६
For Private and Personal Use Only