SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥११४॥ भावविहङ्गम स्वरूपः। नि०- चलनं कम्मगई खलु पडुच्च संसारिणो भवे जीवा । पोग्गलदव्वाईवा विहंगमा एस गुणसिद्धी ।। १२१ ।। प्रथममध्ययन चलनं-स्पन्दनम्, तेन कर्मगतिर्विशेष्यते, कथं?- चलनाख्या या कर्मगतिः सा चलनकर्मगतिः, एतदुक्तं भवति-कर्मशब्देन । द्रुमपुष्पिका, सूत्रम् क्रियाऽभिधीयते, सैव गतिशब्देन सैव चलनशब्देन च। तत्र गतेर्विशेषणं क्रिया क्रियाविशेषणं चलनम् । कुतः?- व्यभिचाराद्, आहारग्रहणइह गतिस्तावन्नरकादिका भवति अत: क्रियया विशेष्यते, क्रियाऽप्यनेकरूपा भोजनादिका ततश्चलनेन विशेष्यते, अतश्चल- विधिः नियुक्ति: १२१ नाख्या कर्मगतिश्चलनकर्मगतिस्ताम्, अनुस्वारोऽलाक्षणिकः, खलुशब्द एवकारार्थः, स चावधारणे, चलनकर्मगतिमेव, न विहायोगतिम्, प्रतीत्य आश्रित्य, किं?- संसरणं संसारः, संसरणं ज्ञानावरणादिकर्मयुक्तानां गमनम्, स एषामस्तीति संसारिणः, अनेन सिद्धानां व्युदासः, भवे इति, अयं शब्दो भवेयुरित्यस्यार्थे प्रयुक्तः, जीवा उपयोगादिलक्षणाः। ततश्चायं वाक्यार्थ:चलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीवा विहङ्गमा इति, विहं गच्छन्ति- चलन्ति सर्वैरात्मप्रदेशैरिति विहङ्गमाः । तथा पुद्गलद्रव्याणि वेत्यादि, पूरणगलनधर्माण: पुद्गलाः, पुद्गलाश्च ते द्रव्याणि च तानि पुद्गलद्रव्याणि, द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम्, तथा चैते पुद्गलाः कैश्चिदद्रव्याः सन्तोऽभ्युपगम्यन्ते, सर्वे भावा निरात्मानः' इत्यादिवचनाद्, अत: पुद्गलानां परमार्थसद्रूपताख्यापनार्थ द्रव्यग्रहणम् , वाशब्दो विकल्पवाची, पुद्गलद्रव्याणि वा संसारिणो वा जीवा विहङ्गमा इति । तत्र जीवानधिकृत्यान्वर्थो निदर्शितः, पुद्गलास्तु विहं गच्छन्तीति विहङ्गमाः, तच्च गमनमेषां स्वतः परतश्च संभवति, अत्र स्वतः परिगृहाते, विहङ्गमा इति च प्राकृतशैल्या जीवापेक्षया वोक्तम्, अन्यथा द्रव्यपक्षे विहङ्गमानीति वक्तव्यम्, एष भावविहङ्गमः, कथं? - गुणसिद्ध्या अन्वर्थसम्बन्धेन, प्राकृतशैल्या वाऽन्यथोपन्यास इति गाथार्थः॥१२१॥ एवं गुणसिद्ध्या भावविहङ्गम © पुद्गलद्रव्याणां नपुंसकत्वादत्र पुंस्त्वनिर्देशः प्राकृतत्वात् । ॐ तृतीयायां प्रथमेति । For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy