SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir प्रथममध्ययन दुमपुष्पिका, श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||११३॥ सूत्रम३ आहारग्रहणविधि: नियुक्तिः१२० भावविहङ्गम स्वरूपः। भाषिकम्, क्रिया वा, कर्म च तद्गतिश्चासौ कर्मगतिः, गमनं गच्छत्यनया वेति गतिः, तत्र भावगति प्राप्य अस्तिकायास्तु इति । अत्र भावगतिः पूर्ववत्तां प्राप्य- अभ्युपगम्याश्रित्य, किं? 'अस्तिकायास्तु' धर्मादयः, तुशब्द एवकारार्थः,स चावधारणे, तस्य च व्यवहितः प्रयोगः, भावगतिमेव प्राप्य न पुनः कर्मगतिम्, सर्वे विहङ्गमाः खलु सर्वे- चत्वारः नाकाशमाधारत्वात्, 'विहङ्गमा इति' विहं गच्छन्त्यवतिष्ठन्ते स्वसत्तां बिभ्रतीति विहङ्गमाः, खलुशब्दोऽवधारणे, विहङ्गमा एव, न कदाचिन्न विहङ्गमा इति । कर्मगतेःप्राग्निरूपितशब्दार्थायाः, किं?- इमौ भेदौवक्ष्यमाणलक्षणाविति गाथार्थः।। ११९॥ तावेवोपदर्शयन्नाह नि०-विहगगई चलणगई कम्मगई उसमासओ दुविहा । तदुदयवेययजीवा विहंगमा पप्प विहगगई ।। १२० ॥ इह गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, विहायसि- आकाशे गतिविहायोगतिः, कर्मप्रकृतिरित्यर्थः, तथा चलनगतिरिति, चलिरयं परिस्पन्दने वर्त्तते, चलनं स्पन्दनमित्येकोऽर्थः, चलनं च तद्गतिश्च सा चलनगतिःगमनक्रियेति भावः । कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स चावधारणे, कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातत्वात्, तत्र तदुदयवेदकजीवाइति, अत्र तदित्यनेनानन्तरनिर्दिष्टां विहायोगतिं निर्दिशति, तस्याविहायोगतेः उदयस्तदुदयो विपाक इत्यर्थः, तथा वेदयन्ति-निर्जरयन्ति उपभुञ्जन्तीति वेदकास्तदुदयस्य वेदकाश्च ते जीवाश्चेति समासः, आह-तदुदयवेदका जीवा एव भवन्तीति विशेषणानर्थक्यम्, न, जीवानां वेदकत्वावेदकत्वयोगेन सफलत्वात्, अवेदकाच सिद्धा इति । विहङ्गमाः प्राप्य विहायोगति मिति अत्र विहे विहायोगतेरुदयादुद्गच्छन्तीति विहङ्गमाः, 'प्राप्य' आश्रित्य,किं प्राप्य?-'विहायोगति' विहायोगतिरुक्ता ताम्, विपर्यस्तान्यक्षराण्येवं तु द्रष्टव्यानि-विहायोगतिं प्राप्य तदुदयवेदकजीवा विहङ्गमा इति गाथार्थः॥१२०॥ अधुना द्वितीयकर्मगतिभेदमधिकृत्याह ॥११० For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy