SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||११२॥ प्रथममध्ययन दुमपुष्पिका, सूत्रम् ३ आहारग्रहणविधिः नियुक्ति: ११९ भावविहङ्गम स्वरूपः। भण्यते आख्यायते, गुणसिद्धिरित्येतत्पदंगाथाभङ्गभयादस्थाने प्रयुक्तम्, संबन्धश्चास्य तेन तु विहङ्गमः स इत्यत्र तेन त्वित्यनेन सह वेदितव्य इति, ततश्चायं वाक्यार्थः- तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्येन विहमाकाशं भण्यते तेनैव कारणेन गुणसिद्ध्या-अन्वर्थसम्बन्धेन विहङ्गमः, कोऽभिधीयत? इत्याह- तत्प्रतिष्ठितो लोक तदित्यनेनाकाशपरामर्शः, तस्मिन्नाकाशे प्रतिष्ठितः तत्प्रतिष्ठितः, प्रतिष्ठति स्म प्रतिष्ठितः- प्रकर्षेण स्थितवानित्यर्थः, अनेन स्थितः स्थास्यति चेति गम्यते, कोऽसावित्थमित्यत आह-लोकः' लोक्यत इति लोकः, केवलज्ञानभास्वता दृश्यत इत्यर्थः, इह धर्मादिपञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्तिकायस्याधारत्वेन निर्दिष्टत्वाच्चत्वार एवास्तिकाया गृह्यन्ते, यतो नियुक्तिकारेणाभ्यधायि'तत्प्रतिष्ठितो लोकः', विहङ्गमः सइत्यत्र विहे-नभसि गतो गच्छति गमिष्यति चेति विहङ्गमः, गमिरयमनेकार्थत्वाद्धातूनामवस्थाने वर्त्तते, ततश्च विहे स्थितवांस्तिष्ठति स्थास्यति चेति भावार्थः, स इति-चतुरस्तिकायात्मकः, भावार्थ इति भावश्चासावर्थश्च भावार्थः, अयं भावविहङ्गम इत्यर्थः । उक्त एकेन प्रकारेण भावविहङ्गमः, पुनरपि गुणसिद्धिमन्येन प्रकारेणाभिधातुकाम आह- वा गतिर्द्विविधे ति, वाशब्दस्य व्यवहित उपन्यासः, एवं तु द्रष्टव्यः- गतिर्वा द्विविधेति, तत्र गमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः ॥११८ ।। तथा चेदमेव द्वैविध्यमुपदर्शयन्नाह नि०- भावगई कम्मगई भावगई पप्प अस्थिकाया उ। सव्वे विहंगमा खलु कम्मगईए इमे भेया ।। ११९ ।। भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा भवन्त्येतेषु स्वगता उत्पादविगमध्रौव्याख्याः परिणामविशेषा इति भावा- अस्तिकायास्तेषां गति:- तथापरिणामवृत्तिर्भावगतिः, तथा कर्मगतिरित्यत्र क्रियत इति कर्म-ज्ञानावरणादि पारि0 विहङ्गमा० (प्र०)। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy