________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारिo वृत्तियुतम्
।। ९९९ ।।
www.kobatirth.org
भावस्य द्रव्यस्य वस्तुन इति गम्यते, क्वचिच्छुक्लादिष्वपि वर्त्तते- - जं जं जे जे भावे परिणमइ इत्यादि यान् २ शुक्लादीन् भावानिति गम्यते, क्वचिदौदयिकादिष्वपि वर्तते यथा- ओदइए ओवसमिए इत्याद्युक्त्वा छव्विहो भावलोगो उ औदयिकादय एव भावा लोक्यमानत्वाद् भावलोक इति, तदेवमनेकार्थवृत्तिः सन्नौदयिकादिष्वेव वर्तमान इह गृहीत इति, भवनं भावः भवन्त्यस्मिन्निति वा भावः तस्मिन् भावे- कर्मविपाकलक्षणे, किं? - 'विहङ्गमो' वक्ष्यमाणशब्दार्थः, पुनः शब्दो विशेषणे, न पूर्वस्मादत्यन्तमयमन्य एव जीवः, किंतु स एव जीवस्त एव पुद्गलास्तथाभूता इति विशेषयति, गुणश्च संज्ञा च गुणसंज्ञे गुणः - अन्वर्थ: संज्ञा पारिभाषिकी ताभ्यां सिद्धिः गुणसंज्ञासिद्धि:, सिद्धिशब्दः सम्बन्धवाचकः, तथा च लोकेऽपि सिद्धिर्भवतु इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्ध्या हेतुभूतया, किं ? - द्विविधो द्विप्रकारः, गुणसिद्ध्याअन्वर्थसम्बन्धेन तथा संज्ञासिद्ध्या च यदृच्छाभिधानयोगेन च। आह- यद्येवं द्विविध इति न वक्तव्यम्, गुणसंज्ञासिद्ध्येत्यनेनैव द्वैविध्यस्य गतत्वात्, न, अनेनैव प्रकारेणेह द्वैविध्यम्, आगमनोआगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः ।। ११७ ।। तत्र 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य गुणसिद्ध्या यो भावविहङ्गमस्तमभिधित्सुराह
नि०- विहमागासं भण्ण्ड गुणसिद्धी तप्पइट्ठिओ लोगो। तेण उ विहङ्गमो सो भावत्थो वा गई दुविहा ।। ११८ ।।
विजहाति - विमुञ्चति जीवपुद्गलानिति विहम्, ते हि स्थितिक्षयात्स्वयमेव तेभ्य आकाशप्रदेशेभ्यश्च्यवन्ते, ताँश्च्यवमानाविमुञ्चतीति, शरीरमपि च मलगण्डोलकादि विमुञ्चत्येव (इति) मा भूत् संदेह इत्यत आह- आकाशं भण्यते, न शरीरादि, संज्ञाशब्दत्वात्, आकाशन्ते- दीप्यन्ते स्वधर्मोपेता आत्मादयो यत्र तदाकाशम्, किं ? - संतिष्ठत इत्यादिक्रियाव्यपोहार्थमाहयद्यद्यान्यान् भावान् परिणमति । २ औदयिक औपशमिकः । षडिधो भावलोकः । ४०भेदेनेति (प्र० ) ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रथममध्ययनं
द्रुमपुष्पिका, सूत्रम् ३ आहारग्रहणविधिः
निर्युक्तिः ११८ एकप्रकारेण
भावविहङ्गम
स्वरूपः ।
।। १११ ।।