SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 11८८॥ प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् १ नियुक्तिः ८४ 'उपन्यासे'ति तहस्तूपन्यासे कार्पिटिकोदाहरणम्। चत्वारः उपन्यासे विचार्ये अधिकृते वा, भेदा भवन्ति इति शेषः, ते चामी- सूचनात् सूत्रमितिकृत्वा तथाधिकारानुवृत्तेश्च तद्वस्तूपन्यासस्तथा तदन्यवस्तूपन्यासः तथा प्रतिनिभोपन्यासः तथा हेतूपन्यासश्च। तत्रैतेषु भेदेषु भवन्ति अमूनि वक्ष्यमाणान्युदाहरणानीति गाथार्थः ।। भावार्थस्तु प्रतिभेदं स्वयमेव वक्ष्यति नियुक्तिकारः । तत्राद्यभेदव्याचिख्यासयाऽऽह नि०- तव्वत्थुयंमि पुरिसो सव्वं भमिऊण साहइ अपुव्वं । तद्वस्तुके तद्वस्तूपन्यास इत्यर्थः, पुरि शयनात्पुरुषः सर्वं भ्रान्त्वा सर्वमाहिण्ड्य किम्?,- कथयति अपूर्वम्, वर्तमाननिर्देशः पूर्ववदिति गाथादलार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदं- एगम्मि देवकुले कप्पडिया मिलिया भणंति- केण भे भमन्तेहिं किंचि अच्छेरियं दिट्ठ?, तत्थ एगो कप्पडिगो भणइ मए दिट्ठति, जड़ पुण एत्थ समणोवासओ नत्थि तो साहेमि, तओ सेसेहिं भणियं- णत्थित्थ समणोवासओ, पच्छा सो भणइ-मए हिंडतेणं पुव्ववेतालीए समुद्दस्स तडे रुक्खो महइमहतो दिट्ठो, तस्सेगा साहा समुद्दे पइट्ठिया, एगाय थले, तत्थ जाणि पत्ताणि जले पडंतिताणि जलचराणि सत्ताणि हवंति, जाणि अथले ताणि थलचराणि हवंति, ते कप्पडिया भणंति- अहो अच्छेरयं देवेण भट्टारएण णिम्मियंति, तत्थेगोसावगो कप्पडिओ, सो भणइ- जाणि अद्धमज्झे पडंति ताणि किं हवंति?, ताहे सो खुद्धो भणइ-मया पुव्वं चेव भणियं- जइ सावओ नत्थि 0 एकस्मिन् देवकुले कार्पटिका मिलिता भणन्ति- केनचित् भवतां भ्रमता किञ्चिदाश्चर्यं दृष्ट?, तत्रैकः कार्पटिको भणति- मया दृष्टमिति, यदि पुनरत्र श्रमणोपासको नास्ति तदा कथयामि, ततः शेषैर्भणितं- नास्त्यत्र श्रमणोपासकः, पश्चात्स भणति- मया हिण्डमानेन पूर्ववैतालिकायां समुद्रस्य तटे वृक्षोऽतिगुरुको दृष्टः, तस्यैका शाखा समुद्रे प्रतिष्ठिता एका च स्थले, तत्र यानि पत्राणि जले पतन्ति तानि जलचराः सत्त्वा भवन्ति, यानि स्थले तानि स्थलचरा भवन्ति, ते कार्पटिका । भणन्ति- अहो आश्वयं देवेन भट्टारकेन निर्मितमिति, तत्रैकः श्रावकः कार्पटिकः स भणति- यानि अर्धमध्ये पतन्ति तानि के भवन्ति?, तदा स क्षुब्धो भणति- मया । पूर्वमेव भणितं यदि श्रावको नास्ति ततः पूर्वकूलं वि.प. । * खत्थो विलक्षः वि. प्र.। 1८८॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy