________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
अकर्तृत्वाविशेषात्, प्रकृत्यादिवियोगस्याप्यनाधेयातिशयमेकान्तेनाकर्त्तारमात्मानं प्रत्यकिञ्चित्करत्वाद्, अलं विस्तरेणेति । प्रथममध्ययन गाथार्थः । उदाहरणदेशता त्वत्राप्युदाहृतस्यैकदेशेनैवोपसंहारात् तत्रैव चासंप्रतिपत्तौ समर्थनाय निदर्शनाभिधानादिति ।। द्रुमपुष्पिका,
सूत्रम् गतमनुशास्तितद्देशद्वारम्, अधुनोपालम्भद्वारविवक्षयाऽऽह
नियुक्ति: ७६ नि०- उवलम्भम्मि मिगावइ नाहियवाईवि एव वत्तव्वो। नस्थित्ति कुविन्नाणं आयाऽभावे सड़ अजुत्तं ।। ७६ ॥
उपालम्भद्वारे उपालम्भे प्रतिपाद्ये मृगावतिदेव्युदाहरणम्। एयं च जहा आवस्सए दव्वपरंपराए भणियं तहेव दट्ठव्वं जाव पव्वइया ।
मृगावतिअज्जचंदणाए सिस्सिणी दिण्णा । अन्नया भगवं विहरमाणो कोसंबीए समोसरिओ, चंदादिच्चा सविमाणेहिं वंदिउँ आगया, चउपोरसीयं समोसरणं काउं अत्थमणकाले पडिगया, तओ मिगावई संभंता, अयि! वियालीकयंति भणिऊणं साहुणीसहिया । जाव अज्जचंदणासगासं गया, ताव य अंधयारयं जायं, अज्जचंदणापमुहाहिं साहुणीणं ताव पडिक्वंतं, ताहे सा मिगावई अजा अजचंदणाए उवालब्भइ, जहा एवं णाम तुमं उत्तमकुलप्पसूया होइऊण एवं करेसि?, अहो न लट्ठयं, ताहे पणमिऊण पाएसुपडिया, परमेण विणएण खामेइ, खमह मे एगमवराह, णाहं पुणो एवं करेहामित्ति । अजचंदणा य किल तंमि समए
देव्युदाहरणम्।
Oएतक यथाऽऽवश्यके द्रव्यपरम्परायां भणितं तथैव द्रष्टव्यं यावत्यव्रजिता आर्यचन्दनायै शिष्या दत्ता। अन्यदा भगवान् विहरन् कोशाम्ब्यां समवस्तः, चन्द्रादित्यौ स्वविमानाभ्यां वन्दितुमागतौ, चतुष्पौरुषीकं समवसरणं कृत्वाऽस्तमयनकाले प्रतिगतो, ततो मृगावती सम्भ्रान्ता- अयि! विकालीकृतमिति भणित्वा साध्वीसहिता है यावदार्यचन्दनासकाशं गता तावच्चान्धकारं जातम्, आर्यचन्दनाप्रमुखाभिः साध्वीभिस्तावत्प्रतिक्रान्तम्, तदा सा मृगावत्यार्या आर्यचन्दनयोपालभ्यते- यथैवं नाम: त्वमुत्तमकुलप्रसूता भूत्वा एवं करोषि?, अहो न लष्टम्, तदा प्रणम्य पादयोः पतिता परमेण विनयेन क्षमयति, क्षमस्व ममैकमपराधम्, नाहं पुनरेवं करिष्यामि इति । आर्यचन्दना च किल तस्मिन् समये
For Private and Personal Use Only