SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । विप्रोऽत्र प्राड्विवाकः । अथैकच दण्डे दण्डान्तरसंकलनं यथा, बृहस्पतिः, बधार्हस्तु स्वर्णशतं दमं दाप्यस्तु पूरुषः । अङ्गच्छेदाहस्तदई सन्दंशाहस्तदर्धकम् ॥ कात्यायनः, सुवर्णशतमेकन्तु बधाों दण्डमर्हति । अङ्गच्छेदे तदईन्तु विवासे पञ्चविंशतिम् ॥ अङ्गच्छेदेऽर्द्धमेवं विवासे तदर्थम्। प्रसक्तबधो ब्राह्मणः शतं सुवर्णान् दण्ड्य इति मिश्राः । विवास इत्यत्र विनाश इति क्वचित्पाठः। तत्रापि तद्देशवासस्य विनाश इत्येक एवार्थ इति रत्नाकरः। कुलौनार्यविशिष्टेषु निकृष्टेष्वनुसारतः। सर्वस्वं वा निगृह्येतान् पुराच्छौघ्रं विसर्जयेत् ॥ निर्द्धना बन्धने धार्या बधं नैव प्रवर्त्तयेत् । सर्वेषां पापयुक्तानां विशेषार्थस्तु शास्त्रतः ॥ कुलीन उत्तमकुलजातः। आर्यः स्वधर्मनिरतः । विशिष्टो गुणवान्। एतेन निकृष्टेषु बधाहेषु' अनुसारतो देशकालापेक्षया दण्डः। तत्र याज्ञवल्क्यः, ज्ञात्वाऽपराधं देशच कालं बलमथापि वा। वयः कर्म च वित्तञ्च दण्डं दण्ड्येषु कल्पयेत् ॥ १ क तिरेषु । ख कृच्छ्रवर्थानुसारतः । २ क पुस्तके क्लिरेवल्यधनेषु बधाईधु । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy