________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपरिनिहा।
मनुः,
अनुबन्धं परिज्ञाय देश-कालौ च तत्त्वतः । मारापराधौ चालेाक्य दण्डं दण्ड्येषु पातयेत् ॥ अनुबन्धो मन्दक्रियानुत्तिः। सारोऽत्र शक्तिः। अयञ्च दण्डः सुवर्णशताद्यसम्भवे, तस्याप्यसम्मवे सर्वस्वमिति व्यवस्थेति रत्नाकरः।
अथापस्तम्बः । पुरुषबधे स्तेये भूम्यादान इति स्वान्यादाय बध्यः । चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ।
स्वानि धनानि। अत्र रत्नाकरे बध्यस्ताद्यः, चक्षुरवरोधश्चक्षुरुत्पाटनं ब्राह्मणस्याधमतमस्येति व्याख्यातम् । स्तेयं सुवर्णहरणं ब्राह्मणस्याधमस्येति मिश्राः।
वस्तुतस्तु बध्यो घात्य इत्येवार्थः। स चाऽब्राह्मणविषयस्तुशब्दस्वरसात् । ब्राह्मणपदञ्चासङ्कुचितम् ।
तथाहि मिताक्षरायां। ब्राह्मणस्य पुरान्निर्वासनसमये वस्त्रादिना चक्षुनिरोधः कार्यों न तु चक्षुरुत्पाटनम् । अक्षतो ब्राह्मणो व्रजेदिति-न शारौरो ब्राह्मणदण्ड इति, मनु-गौतमवचनविरोधादित्युक्तम् ।
एवञ्च यत्र क्षत्रियादेबंधस्तच ब्राह्मणस्य प्रवासनं बहुशः श्रुतमिहापि प्राप्तम् । तथाच त्यज्यमानं स्वदेशं पश्यतो मन्युरस्य स्यादिति युक्तं चक्षुःपिधानमिति भावः ।
For Private And Personal Use Only