________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
कात्यायनः,बधाङ्गच्छेदा) विनो' निःसङ्गे बन्धने विशेत् । तदा कर्मविमुक्तोऽसौ वृत्तस्थस्य दमो हि सः ॥ कूटसाक्ष्येऽपि निर्वास्यो विख्याप्योऽसत्यतिग्रही।
अङ्गच्छेदी वियोज्यः स्यात् स्वधर्मे बन्धनेन तु ॥ बधाङ्गच्छेदा) यस्मिन्नपराधे बधो वाऽङ्गच्छेदो वाऽर्हति तहान् । विप्रोऽत्र सदाचारनिष्ठः । वृत्तस्थस्येति विशेषणं दुर्वृत्तस्य दण्डान्तरं सूचयतौति कल्पतरुः। निःसङ्गे क्रियायोगशून्ये । यच बद्धः सन् स्वधर्म कत्तुं न पारयति तदा कर्मविमुक्तः स्यादिति शेषः। स एव सदाचारस्य दमो यत् स्वधर्मावियोजनं नाम। विख्याप्यस्तेन रूपेण लाके प्रकाशनीयः। अङ्गच्छेदी परस्याऽङ्गच्छेत्ता वियोज्यः स्वधर्मे स्वधर्म कत्तं स्वातन्त्र्यमस्य बन्धनेनापहरेत् । कात्यायनः,मानवाः सद्य एवाहुः सहोढानां प्रवासनम् । सहोढमसहोढं वा सर्वस्वैर्विप्रयोजयेत् ॥ अयःसन्दानगुप्ताश्च मन्दभक्ता महाबलाः। कुर्य्यः कर्माणि नृपतेरामृत्योरिति कौशिकः ॥ अयःसन्दानेति पूर्वं बलान्विताः सन्तोऽयःसन्दानगुप्ता लोहनिगड़बद्धाः। मन्दभक्ताः कर्मयात्रोपयिकबलजनकभोजनभाजः। कर्माणि कुर्य्यरामृत्योरिति योजना। ब्राह्मणविषयञ्चैतद्वचनम् । तेन वृत्तस्वाध्यायवतः प्रवा
१ ख घ पुस्तकद्वये बधाङ्गछेदने विप्रः ।
For Private And Personal Use Only