________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दण्डपरिनिष्ठा ।
सनम् । तच्छून्यस्य धनवतः सर्व्वस्वहरणम् । निर्द्धनस्य तु तथाविधस्य बन्धनादिकमभिप्रेतमिति रत्नाकरः ।
Acharya Shri Kailassagarsuri Gyanmandir
साहस-चौर्य्ययोर्यमः,—
न शारौरो ब्राह्मणस्य दण्डो भवति कर्हिचित् । गुप्ते तु बन्धने बद्धा राजा भक्तं प्रदापयेत् ॥ अथवा बन्धनं रज्वा कर्म वा कारयेन्नृपः । मासाईमासं कुब्बत कार्य्यं विज्ञाय तत्त्वतः ॥ यथापराधं विप्रन्तु विकर्माण्यपि ' कारयेत् ॥
गुप्ते रक्षिते यतः पलायनं न भवति । बन्धने कारागारे। विकर्माणि उच्छिष्टमार्जनादौनौति रत्नाकरः ।
――――――――
अत्र बृहस्पतिः —
वृत्तस्वाध्यायवान् स्तेयौ बन्धनात् क्लिश्यते चिरम् । स्वामिने तद्धनं दाप्यः प्रायश्चित्तञ्च कार्य्यते ॥
वृत्तमाह मनुः, -
गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्त्तनं हितानाच्च सर्व्वं तदृत्तमुच्यते ॥
कात्यायनः,
स्वाधीनं कर्म्म कारयेत् ।
धनदानासहं बुवा अशक्तो बन्धनागारं प्रवेश्यो ब्राह्मणाते ॥ चचविट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । आनृण्यं कर्म्मणा गच्छेत् विप्रो दद्याच्छनैः शनैः ॥
१ व पुस्तके किंकमाण्यपि ।
For Private And Personal Use Only