________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपरिनिष्ठा।
दण्डस्याधिक्येन तत्रापि बधस्योत्तरावधित्वादपराधगौरवात् विषयोत्कर्षः । तस्याप्युत्कर्षन्यायाहा वचनाद्दा प्राप्ते तत्र वैगुण्यादेरसम्भवात् ब्राह्मणपौडनविषये शूद्रस्य बधोपायोऽनेन नियम्यते।
सर्वज्ञेन तु चिर्नानाविधैर्हस्तपादादिभिरिति व्याख्यातम् । एवमन्यदपि द्रष्टव्यम् ।
अथ दण्डसमुच्चयो यथा । बृहस्पतिः,
स्वल्पेऽपराधे वाग्दण्डं धिग्दण्डं पूर्वसाहसे । मध्योत्तरे धनं दण्डं राजद्रोहे च बन्धनम् ॥ निर्वासनं निरोधोऽपि कार्य्यमात्महितैषिणा ।
योज्यः समस्त एकस्य महापातककारिणः ॥ तच मनुः,वाग्दण्डं प्रथमं कुर्यात् धिग्दण्ड तदनन्तरम् । तृतीयं धनदण्डन्तु बधदण्डमनन्तरम् ॥ बधेनापि यदा त्वेनं निग्रहौतुं न शक्यते । तदेषु सर्वमेवैतत् प्रयुञ्जौत चतुष्टयम् ॥ बधदण्डमङ्गच्छेदम् । बधस्ताडनमिति कल्पतरुः। सर्वमेवैतदिति दशविधं दण्डं प्रागुक्तं वाग्दण्डादित्रयं चेति सर्वतेन व्याख्यातम् । बृहस्पतिः,
वाग्दण्डो धिग्दण्डश्चैव विप्रायत्तावुभौ स्मृतौ । अर्थदण्ड-बधावुक्तौ राजायत्तावुभावपि ॥ १ ख ग विषयोत्कर्षात् । २ क ख धनदण्डम् ।
For Private And Personal Use Only