________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
इत्यत्र तत्कारौ साक्षाद्दधकारौति रत्नाकरव्याख्यान
दर्शनात्।
तेन मन्यत्पादनहारा विषादिखादिनो' बधे नायं दण्ड इति गम्यते। तथा,मित्रप्राप्त्यर्थलाभैर्वा राज्ञा लोकहितैषिणा। .
न मोक्तव्याः साहसिकाः सर्वलोकभयावहाः ॥ मित्रेति मित्रप्राप्तिलाभादर्थलाभादेवंजातीयादन्यतो वा हेतोर्न मोक्तव्या इत्यन्वयः । एवञ्च न मोक्तव्या अपि तु बध्या एवेत्यर्थः। न तु दण्डसामान्यपरमिदं अर्थलाभैरित्यभिधानविरोधात्।
सोऽयं दण्डनीयपुरुषविशेषादण्डनियमविशेष उदाहृतः। एवमेव दण्डनिमित्तभेदादप्यूहनीयः। तथा हि उपस्थमुदरं जिह्वेत्यादौ कुल्लकभट्टेनोक्तं तत्तदङ्गस्यापराधगौरवलाघवापेक्षया च्छेदनताडनादि कार्यमल्यापराधे यथाश्रुतो धनदण्डो महापातके बध इति।
अथ दण्डप्रकारनियमो यथा। मनुः,ब्राह्मणान् वाधमानन्तु कामादवरवर्णजम् ।
हन्याचित्रर्बधोपायैरुद्वेगजनकै→पः ॥ वाधमानमिति पौडयन्तम् । अवरवर्णजं शूद्रम् । चित्रैः शूलाग्रनिवेशनादिभिः। अर्थदण्डापेक्षया शारीरस्य
१ग विषादिदायिनः ।
For Private And Personal Use Only