________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
कुतः-विपक्षे वाधकाभावादिति चेत्। नरकश्रवणात्। प्रायश्चित्ताचरणलेशप्रतिसन्धानात्। अयशोभयादकीर्त्तिभयात्। _ अन्यथा स्वदण्डनेऽपि प्रवृत्तिस्तस्य कुतः विपक्षवाधकाभावादिति तुल्यम् । 'रागौत्कव्यानरकश्रुत्यादिकं विस्मृत्य कृतपापस्य राज्ञः का गतिरिति चेत्। समर्थस्य प्रायश्चित्तमसमर्थस्य तत् प्रत्याम्नायतया श्रुतं गोदानादि। तच्च द्रव्यं ब्राह्मणादिभ्यो देयमिति। नारायणव्याख्यानमप्येवमेव नेयम्।
असामर्थ्य दण्ड एव कुतो न स्यादिति चेत् गवाद्यपेक्षया गुरुत्वात्। गुरुरपि स एव न्याय्यो दण्डप्रायश्चित्तयोवैकल्पिकत्वात्। प्रत्याम्नायस्यानुकल्पकत्वादिति चेत् तर्हि गोदानादिकमपि न स्यात् । दण्डाभावे सावकाशमिति चेत् न दण्डस्य सर्वत्र श्रुतत्वात्। सर्वदा सम्मवाच । अस्तु वा तस्य वाग्दण्डो धिग्दण्डश्च तयोः प्राड्विाकपुरोहितप्रवर्तनौयत्वात्।
एतदेवाभिसन्धायाह नारायणो-हलायुधश्च “राजदण्डस्तु सभ्यैरेव कर्त्तव्य इति। अथ शारीरदण्डेऽवधिमाह कात्यायनः,शारीरस्त्ववरोधादिज्जीवितान्तस्तथैवच ॥
१ ख घ रागोत्कर्षात् ।
For Private And Personal Use Only