________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डनिमित्तेषु दण्डभेदव्यवस्था ।
यति तत्रेति ऐश्वर्यापेक्षया राजामात्यादीनामप्यधिकदण्ड्यत्वमुक्तं युक्तम् । एवमेव नारायणः ।
अचात्मदण्डञ्च राजा प्रकल्पयेत्। तच्च ब्राह्मणेभ्यो दद्यात् अस वा क्षिपेत्। ईशो दण्डस्य वरुण इत्यादेर्मनुनैवाभिधानादिति कुल्लकेन मनुटौकायामुक्तम् ।
तत्र प्रतिभाति महापातकिनां धनदण्डं विचार्य तस्य स्वयं विनियोगे राज्ञस्तत्यापमतिदिश्य वरुणब्राह्मणान्यतरप्रतिपत्तिं विधाय मनोरयमनुवादो दण्डवाधप्रकरणपरिसमाप्तौ दर्शितः।
न चायं राज्ञः स्वदण्डं स्पष्टुमौष्टे प्रतिपत्त्या तदाक्षेप इति चेन्न तस्यानियतविषयत्वात्। आरभ्याधीतत्वात् , तं दण्डमिति वचनाच्च ।
तस्माद्राज्ञामवान्तरनरपतौनामिति रत्नाकरोक्तमेव न्याय इति द्रष्टव्यम्। स्वस्य स्वयं दण्डनानुपपत्तेः।
यत्तु नारायणेन- किं बहुना सोऽपि दण्ड्य एवेत्याहेति कृत्वा वचनमिदमवतारितं तत्रापि शब्दस्वरसात्कमुतिकन्यायो मूलं तस्य चान्येषां दण्डदाय तात्पर्यम् ।
वरुणब्राह्मणयोरन्यतरस्मिन् श्रुतराजदण्डसमद्रव्यप्रक्षेपस्तु न दण्डः। तत्त्वेन तत्प्रतिनिधित्वेन वाऽनुपदेशात् । प्रत्युत समनन्तरमेव_. “यत्र वर्जयते राजा पापकृड्यो धनागमम् ।” इत्यादिना तदनत्यागस्यैवोपसंहारात् । एवं सति प्रधानस्य राज्ञो दण्डाभावे पापानिवृत्तिः
For Private And Personal Use Only