________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ दण्डपरिनिष्ठा |
सा च दण्डस्य तत्प्रकारस्य नियमोsस्य समुच्चयस्तस्य संकलनं दण्डान्तरेणेति चतुर्विधेति संग्रहः ।
तत्र दण्डनियमः ।
पिचादीनां राज्ञां हिंसाव्यतिरिक्तेऽपराधे वाग्दण्ड एव । प्रव्रजितादीनां धिग्दण्ड एवेत्यादिः ।
तच मनुः,
।
पिताचार्यः सुहृन्माता भार्य्या पुचः पुरोहितः । नादण्ड्यो नाम राजोऽस्ति यः स्वधर्मे न तिष्ठति ॥
याज्ञवल्क्यः,
ऋत्विक् पुरोहितामात्य पुत्रसम्बन्धिबान्धवाः । धर्माचिलिता दण्ड्या निर्वास्या राजहिंसकाः ॥ तेषां दण्डमा बृहस्पतिः, -
गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत् ।
कात्यायनः, -
पिचादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनाम् । धिक् धिग्दण्डनम् । एवञ्च यदमौषामदण्यत्वाभिधानं तदर्थ-शारौरदण्डाभिप्रायम् ।
यथा शङ्खलिखितौ,
-
दयौ मातापितरौ स्नातकपुरोहितौ परिव्राजकवानप्रस्थौ । जन्मकर्म्मश्रुतशौलशौचाचारवन्तः । ते ह
I
8
For Private And Personal Use Only