________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डनिमित्तेषु दण्डभेदव्यवस्था ।
५३
दण्डः । यदि तु विहितस्य दण्डस्य पुनःप्रवृत्तिनिवर्त्तनासामर्थ्य दण्डस्योच्छृङ्खलत्वादिना' प्रथममेवावगम्यते तदा यावता तन्नित्तिः सम्भाव्यते तावान् दण्डः प्रथममेव प्रणेतव्य इति स्थितम्। __ यदि तु प्रथमेऽपराधे यथाविहितो दण्डः पुनस्तज्जातीये पतिते यावता दमनं' तावान् दण्ड इति मतम् । तदा यस्य प्रथम एवापराधे विहितदण्डदानासामर्थ्य ततोऽल्पौयसैव दमनं तत्र का गतिः। कर्मण विहितदण्डपूरणमिति चेत् कस्तर्हि निर्धनः सर्वेषां कर्मसंभवात् । व्यासः,
समूहस्थाः प्रत्ताश्चेत्यापेषु पुरुषाधमाः। यथोक्ताद्विगुणं दण्डमेकैकं तान प्रदापयेत् ॥ समूहस्थाः मिलिताः। यथोक्तादिति एकाकिनः पुरुषस्य पापे प्रवृत्तस्य यो दण्डस्तस्मादित्यर्थः। अथापराधानुबन्धगौरवादिना दण्डाधिक्ये बैगुण्यादिविशेषानभिधानेन तदत्कर्षसीमामाह।
नारदः,___ काकिन्यादिस्तु यो दण्डः स तु माषपरः स्मृतः।
[काकिन्यादिः काकिन्यादिपरः। माषपरो माषान्तः। तेन यत्रापराधे काकिन्यात्मको दण्ड उक्तस्तत्र निमित्तवशात् सातिशयोऽपि माषपर्यन्त एव कार्यः। एवमुत्तरचापौत्याह। १ क पुस्तके उत्कर्षादिना । २ क यावद्धनम् ।
. ३ घ पुस्तके [ ] चिह्नितांशः पतितः ।
For Private And Personal Use Only