________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
VXWav
~
~
~
~
तथाहि पूर्वश्लोकार्थः। तेषु तेष्वपराधेषु मन्वाद्यक्ततत्तद्दण्डनियमं गागौंयमानवा गर्गशिष्या वदन्ति। गौतमस्तु नियमं न मन्यते । दण्डस्य दत्तनिवर्तकतया दृष्टार्थत्वेन यावता तन्नित्तिस्तावत एव शास्त्रार्थत्वात् । तन्निवृत्तौ तस्य तस्यौत्सर्गिकत्वेन मन्वादिभिस्तथातथाभिधानादिति ।
एतन्यायमूलकमेव संग्रहप्रकरणीयम् । बृहस्पतिवचनम्,
चयाणामपि चैतेषां प्रथमोत्तममध्यमः। विनयः कल्पनीयः स्यादधिको द्रविणाधिकः ॥ इति तथा कार्षापणं भवेद्दण्ड्य इत्यादि मनुवचनं तन्यायमूलकमेव ।
यच्चाधिकृतगुरुविप्राणामाकोशे निर्भर्त्सनं ताडनं गोमयालेपनं खरारोहणं दर्पहरो दण्डो वेति शङ्खलिखिताभ्यामुक्तं तस्याप्युक्त एवार्थे तात्पर्य्यम् । कात्यायनौयेनैकमूलकत्वे लाघवात् ।
आध्यादीनां विहारमित्यादियाज्ञवल्क्यवचने मिताक्षराकारः। दण्डो दमनादित्याहुस्तेनादान्तान् दमयेत् इत्यनेन दण्डस्य दमनार्थत्वावगमाद् यस्य तत्समदण्डेन विहितेन दमनं न भवति तस्य तदधिको दण्डो निर्धनस्य तु यावता पोडा तावानेवेति एतदुक्तं वेति स्फुटम् ।
तदेवं यस्मिन् कर्माणि शृङ्गग्राहिकया यो दण्डो विहितः, तं दत्त्वाऽपि यस्तस्मिन्नेव प्रवर्तते तस्य तदधिको
-
-
---
--
-
-
-
For Private And Personal Use Only