________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दण्डनिमित्तेषु दण्डभेदव्यवस्था ।
४६
नारायणस्त्वाह,
कामकृतेऽनुक्तरूपं प्रवासनमङ्कनादिसहितं एतच्चाल्पारम्भविषयमारम्भमहत्त्वे तु हननमेवेति । तदेवमकामकृते महापातके बहुश्रुतादेर्दण्डाभावः । तदितरस्य गुणवतो मध्यमसाहसं निर्गुणस्योत्तमसाहसं दण्डः सर्व्वेषां प्रायश्चित्ताचरणश्च तदनाचरणे देशान्निःसारणम् ।
कामकृते तु तस्मिन् बहुश्रुतादेः प्रायश्चित्ताचरणमनाचरणे निःसारणं तदितरस्याङ्कनं निःसारणच । क्षचियादेस्तु कामकृते तस्मिन् बधः । अन्यत्राङ्कनधनदण्ड- प्रवासनादौति व्यवस्था ।
अथ धनदण्डोऽप्यमौषामनुशासनमाचार्थ एव । समनन्तरमेव तस्य त्यागस्मरणात् ।
तथाहि मनुः–
नाददीत नृपः साधुः महापातकिनो धनम् । आददानस्तु तल्लोभात्तेन पापेन लिप्यते ॥
धनं धनदण्डरूपमिति नारायणः ।
नाददीत पातकिसकाशादाकृष्टमपि न स्वीकुर्वीत । किं तर्हि कुर्य्यादित्याह —
अप्सु प्रवेश्य तं दण्डं वरुणायोपकल्पयेत् । श्रुतत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्व्वस्य जगतो ब्राह्मणो वेदपारगः ॥ वृत्तमाचार इति नारायणः । मनूक्तं गुरुपूजादौति तत्त्वम् । राज्ञामिति - राज्ञामपि दण्डधरः शास्ता यतः ।
7
For Private And Personal Use Only