SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । यमः, पतितस्य धनं हत्वा राजा पर्षदि दापयेत् । पर्षदि सभायां दापयेत् सभ्येभ्य इति शेषः । अथ दण्डापकर्षः। तत्रानेककर्मकलापसाध्ये स्तेयादौ कात्यायनः, आरम्भे प्रथमो दण्डः प्रवृत्ते मध्यमः स्मृतः । आरम्भे तत्फलावच्छिन्नकर्मकदम्बान्तर्भूतार्थे एककर्म'कृत्यामित्यर्थः। प्रथमः कथितः सम्पूर्णदण्डचतुर्थभागात्मकः। प्रहत्ते तथाविधानेककर्मफलकृत्यां मध्यमो दण्डोऽर्डात्मकः। व्यासः, गुप्तायाः संग्रहे दण्डो यथोक्तः परिकल्पितः। इच्छन्त्यामागतायान्तु गच्छतोऽईदमः स्मृतः ॥ एवमन्यदुदाहरणीयम् । अथ दण्डसाम्यम् । तत्र पूर्वोक्त एव विषये कात्यायनः, यस्य योऽभिहितो दण्डः पर्याप्तस्य स वै भवेत् । पर्याप्तिस्तत्यापजनकसकलकर्मकृतिःर तद्दतः पुरुषस्य यथोक्तो दण्डो भवेत्। १ ग पुस्तके कर्मफलकृत्यां । २ क ग पुस्तकहये कमजनककृतिः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy