________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
इतरे कृतवन्तस्तु पापान्येतान्यकामतः ।
सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥ पर्खे ब्राह्मण-क्षत्रिय-वैश्याः, अकामत इत्युत्तरश्रुतमप्यन्वेतीति मनुटौका। इह क्षत्रियादिभिरेकोक्त्या निर्देशात् ब्राह्मणो निर्गुणो विवक्षितः, मध्यमसाहसस्तु गणवत्-ब्राह्मणविषय इति न विरोधः । विवासनन्तभयसाधारणम् ।
सर्वच्चैतत् बहुश्रुताद्यन्यविषयं विवास्यो वा इत्यादि साईश्लोकः प्रायश्चित्ताकरणपक्षे वाकारस्वरसात्। वृहस्पतिवाक्ये समभिव्याहृतस्याङ्कनस्याकामकृतत्वेन निवृत्ती विवासनमात्रस्य पारिशेष्यात् मध्यमसाहसेन सह तस्य तुल्यवदिकल्पायोगात्।
आहतुश्चैनमेवार्थं शङ्खलिखितौ,महत्खपि पातकेषु विवासनमङ्कनं ब्राह्मणस्य प्रायश्चित्तानि वा शोधनमपौद्यो हि ब्राह्मणः । इति ।
अतएवात्र प्रायश्चित्तपक्षेऽङ्काकरणादपौद्यता इति रत्नाकरकृता व्याख्यातम् । इतरे इति क्षत्रियादयस्त्रय इत्यर्थः।
सर्वस्वहारं सर्वस्वग्रहणमेतच्च पूर्वोक्तन उत्तमसाहसेन सह वृत्ताद्यपेक्षया व्यवस्थापनौयम्। कामत इति पापानि कृतवन्तः । प्रवासनमत्र बधः
प्रवासनं परासनं निस्दनं निहिंसनम् । इत्यभिधानकोषपाठादिति मनुटौकायां कुल्लकभट्टः ।
For Private And Personal Use Only