________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डनिमित्तेषु दण्डभेदव्यवस्था । अङ्कनप्रकारमाह बौधायनः,ब्राह्मणस्य भ्रुणहत्या-गुरुतल्प-सुवर्णस्तेय-सुरापानेषु कवन्ध-भग-श्वपाद-ध्वजांस्तप्तेनायसेन ललाटेऽङ्कयित्वा स्वविषयान्ते निर्वासनम्। नारदः,
अशिराः पुरुषः कार्यो ललाटे हिजघातिनः । गुरुतल्पे भगः कार्य्यः सुरापाने सुराध्वजः ॥ स्तेये तु श्वपदं कृत्वा शिखिपित्तेन पूरयेत्। टझेन · ललाटमुत्खाय मयूरपित्तेन पूरणमित्येतत् प्रकारान्तरं हरितिकेति प्रसिद्धम् । अब यमः,ब्राह्मणस्यापराधेषु चतुर्वव विधीयते । शिरसो मुण्डनं दण्डः पुरान्निर्वासनं तथा ॥ प्रख्यापनार्थं पापस्य प्रयाणं गईभेन तु।
ललाटे चाङ्ककरणं कुर्याद्राजा यथाविधि ॥ एतद्दर्शनादकस्यापि प्रख्यापनार्थत्वेन गर्दभारूढभ्रामणेन सह तस्य विकल्प एव। सर्वञ्चैतत् कामकृते महापातके प्रायश्चित्ताकरणपक्षे द्रष्टव्यम् । अन्यत्र त्वाह मनुरेव,प्रायश्चित्तन्तु कुर्वाणाः पूर्वे वर्णा यथोदितम् । नाझ्या राज्ञा ललाटेषु दाप्यास्वत्तमसाहसम् ॥ आपत्सु ब्राह्मणस्यैषु कार्यों मध्यमसाहसः। विवास्यो वा भवेद्राष्ट्रात् सद्रव्यः सपरिच्छदः ॥
For Private And Personal Use Only