________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪૬
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड़विवेकः ।
युक्तञ्चैतत् कामकृतेषु तेषु कात्यायनादिना निःसङ्ग
बन्धनादि - दण्डाभिधानात् ।
अथ मनुः,—
ब्रह्महा च सुरापश्च तस्करो गुरुतल्पगः । एते सर्व्वे पृथक् ज्ञेया महापातकिनो नराः ॥ चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्व्वताम् । शरीरं धनसंयुक्तं धर्म्यं दण्डञ्च कल्पयेत् ॥ चतुर्णामपि क्षत्रियादौनां शारौरो दण्डो बध एव, ब्राह्मणानामवरोधरूपः समनन्तरोक्तोऽङ्कनरूपो वा । न तु हस्तच्छेदबधादिः, तस्य बृहस्पतिना निषेधात् ।
यदाह, -
*
दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु तानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥
बृहस्पतिः,—
महापातकयुक्तोऽपि न विप्रो बधमर्हति ।
निर्वासनाने मौण्ड्यं तस्य कुर्य्यान्नराधिपः ॥ अत्र निर्वासनाङ्कनयोर्विकल्प इति रत्नाकरः । तन्मते,—
न जातु ब्राह्मणं हन्यात् सर्व्वपापेष्ठवस्थितम् । राष्ट्रादेनं बहिः कुर्य्यात् समग्रधनमक्षतम् ॥ इति मनुवचनं पक्षप्राप्ताभिप्रायकमस्तु समनन्तरन्तु बौधायनवचनं दुर्घटम् । दुर्घटतरञ्च यमोक्तमङ्कनस्य प्रख्यापनार्थत्वम् ।
For Private And Personal Use Only