SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डनिमित्तेषु दण्डभेदव्यवस्था । हलायुधस्तु चिषु दानादिषु याजनादिषु वेति व्याख्याय षट्सु सदाचारेधित्यत्र समाचारिष्ठिति पठित्वा स्मार्तशिष्टाचारेष्विति व्याख्यातवान् । षड्भिर्बधादिभिः परिहार्थो बधादिभिरशास्योऽदण्ड्य इति शरीरार्थदण्डनिषेधपरं, वाक्धिक्दण्डयोर्वक्ष्यमाणत्वात् । अपरिहार्य्य इति महापातकिषु निषिद्धे सहभोजनादाव बहिष्कार्य्य इत्यर्थः । પૂ वस्तुतस्तु भिरिति संग्रहः, अबध्य' इत्यादि तद्विवरणम् । तत्र निषेधमाह मनुः, - असम्भोज्या ह्यसंयाज्या असम्पाद्या विवाहिनः । ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः । निर्हया निर्नमस्कारास्तन्मनोरनुशासनम् ॥ असम्भोज्यास्तैर्मिलित्वा भोगगोष्ठौ न कार्येत्यर्थ इति रत्नाकरः । मनुटौकायां नारायणोऽप्याह एकपतिभोजनानर्हा इति । कुल्लूकभट्टस्त्वाह अन्नादिकं नैते भोजनीया इत्यर्थः । असंयाज्या अयाजनीया संपाया अध्यापनानर्हा अविवाहिनो विवाहानधिकारिणः । ज्ञातयः पितृसम्बन्धिनः सम्बन्धिनो मातृसम्बन्धिनः । निर्दया व्याध्यादियोगेऽपि सद्भिर्दयाविषयोकर्त्तुमनुचिताः, निर्नमस्कारा ज्येष्ठादिगुणयोगेऽपि नमस्कर्त्तुमनर्हाः । तदेतद्बहुश्रुतादेरदण्ड्यत्वाभिधानं प्रमादकृतमहापातकादिविषयमिति पारिजातः । १ परिक्षा । २ ख मातृबान्धवाः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy