________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
प्रसृतेषु कार्य्यार्थं प्रस्थितेषु अनिवारणं तन्मध्यगमनेऽनिषेधनम | असहासः कार्य्यवशादसद्भिः सह वासः, चेच्छब्दः समुच्चये अव्ययानामनेकार्थत्वात् ।
शिलाञ्छपदयोरिति शिल उच्छ इत्यात्मवृत्तिभ्यां वर्त्तमानयोर्ब्राह्मणयोः शेषौभूतधान्यराशेर्ग्रहणम्, अग्रोत्सर्गमग्रत्यागपूर्व्वकमश्वस्तनविधिना ग्रहणमित्यर्थः । प्रसवः प्रसिद्धः, वृद्धिः कुषौदं, कर्षः कर्षणं, आपणं क्रयविक्रयव्यवहारः, नदौतरः नदौतरणं, एतेषु यद्देयं तदप्रयच्छतोऽनुपरोधनमनाक्रमणं, व्यतिक्रमणमाज्ञालङ्घनम् ।
गौतमः, -
स एव बहुश्रुतो भवति वेदवेदाङ्गविद्वाकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तदृत्तिश्चाष्टाचत्वारिंशता संस्कारैः संस्कृतस्त्रिषु कर्म्मस्वभिरतः पदसु सदाचारेषु विनौतः षड़भिः परिहार्यो राज्ञाऽवध्यश्चावेध्यश्चादण्ड्यश्चाबहिः कार्य्यश्चापरिवाद्यश्चापरिहार्य्यश्च ।
तहुश्रुतादिविषयं तस्यैवोपक्रमात् न तु ब्राह्मणमाचविषयं राजा सर्व्वस्येष्टे ब्राह्मणवर्ज्जमिति गौतमवचनं प्रशंसार्थकमिति मिताक्षराकारः ।
वाको वाक्यमत्रोक्तिप्रत्युक्तिमद्वेदवाक्यं तदपेक्षस्तहिरोध्याचारशून्यस्तद्वृत्तिस्तदविरोधिव्यापारशौलः । अष्टचत्वारिंशत्संस्कारैर्गर्भाधानादिभिः । चिषु दानाध्ययनयागेषु. षट्सु यज्ञाध्ययन-दान- याजनाध्यापन प्रतिग्रहेषु ।
१ ग घ चेष्टितेषु ।
-
For Private And Personal Use Only