________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डनिमित्तेषु दण्ड भेदव्यवस्था ।
अथ ब्राह्मणमाचस्यादण्डमाह नारदः, - ब्राह्मणस्यापरौहारो मार्गादानञ्च गच्छतः । भैक्ष्यहेतोः परागारे प्रवेशश्चानिवारितः ॥ समित्पुष्प कुशादानेष्ठस्तेयं सपरिग्रहात् । 'अनध्यक्षः परेभ्यश्च सम्भाषश्च परस्त्रियाः ॥ अपरौहारो दण्डाभावः, अनिवारित इति वचनाद्दारणे अपराध एव, अस्तेयं चौर्य्याभावः सपरिग्रहादिति पर - परिग्रहविषयस्यापि समिदादेरादानान्नापराध इत्यर्थः । अध्यक्षः परेभ्य इति शत्रुभ्योऽप्यागतो ब्राह्मणोऽदुष्टाभिप्रायश्वेन दण्ड्य इत्यर्थः । सम्भाषश्च परस्त्रिया इति दोषाभावाभिप्रायम् । तथा शङ्खलिखितौइन्धनोदक-काष्ठाग्नि-तृणोपल-पुष्प फलपर्णादानेघग्रावचयं देवतीर्थाभिगमनं गृहकोष्ठप्रवेशनं पथि शस्त्र - धारणमसम्बद्धमासनं प्रसृतेषु निवारणमसद्दासश्चेच्छिलाञ्छपदयोर्धान्यराशिग्रहणमग्रोत्सर्गं प्रसववृद्धिकार्षापणशुल्कनदोतरेष्वनुपरोधनं परस्त्रीसम्भाषणं, राजस्त्रीदर्शनं व्यतिक्रमच्च कोपात् सर्व्वमर्हति ब्राह्मणः ।
-
इन्धनेत्याद्यावश्यकेन्धनादिपरं, देवोऽचान्यापरिगृहीतदेवालयः, एवं तौर्थमपि, गृहकोष्ठप्रवेशनं परस्येति शेषः, पथि देशान्तरवर्त्मनि असम्बद्धमासनं प्रयोजनं विना यच क्वचनावस्थानम् ।
१ क पुस्तके प्रवेशस्त्वनिवारितः ।
२ घ ङ पुस्तकहये अनाध्यक्षः । मूले— अनपेक्षः
४३
For Private And Personal Use Only